________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥६७॥
सर्गः
श्रेयांसजिनचरितम् ।
1282828282828282828282828286
अन्यदा तु विभावर्यां विष्णोस्तल्पे निषेदुषः । तैस्तारं गातुमारेभे गन्धर्वैरिव वज्रिणः ॥ ८७१ ॥ तद्गीताक्षिप्तहृदयः करीवाथ जनार्दनः । एकं वारस्थितं शय्यापालमेवं समादिशत् ॥ ८७२ ॥ निद्रायमाणेष्वस्मासु गायतो गायनानमून् । विसृजेस्त्वं वृथाऽऽयासः स्वामिन्यनवधायके ॥ ८७३ ॥ तथेति प्रतिपेदे स शय्यापालः प्रभोर्वचः । शाणिोऽपि क्षणान्निद्रा मुद्रयामास लोचने ॥ ८७४ ॥ शय्यापालोऽपि तान् गीतलोभाद् विसृजति स्म न । विषयाक्षिप्तमनसा गलेहि स्वामिशासनम् ॥ ८७५ ॥ यामिन्याः पश्चिमे यामे प्रबुद्धोऽधोक्षजस्ततः । तथैव गायतोऽश्रौषीत् तानक्षीणकलस्वरान् ॥ ८७६ ॥ किं विसृष्टास्त्वया नामी स्पष्टकष्टास्तपस्विनः । इति पृष्टस्त्रिपृष्ठेन शय्यापालोऽब्रवीदिदम् ॥ ८७७॥ अमीषामेव गीतेन व्याक्षिप्तहृदयः प्रभो ! । व्यस्राक्षं गायनान्नैतान् व्यस्माष स्वामिशासनम् ॥ ८७८ ॥ ततः प्रकुपितः सद्यः कृत्वा चाकारसंवरम् । प्रातरर्क इव प्राची सभामध्यास्त केशवः ॥ ८७९ ॥ तत्र स्मृत्वा निशावृत्तं शय्यापालं प्रदर्श्य तम् । आरक्षपुरुषानेवं समादिक्षदधोक्षजः ॥८८०॥ अमुष्य प्रियगीतस्य कर्णयोः क्षिप्यतां ध्रुवम् । तप्तं त्रपु च तानं च दोषः कर्णकृतो ह्ययम् ॥८८१॥ शय्यापालं तमेकान्ते तेऽपि नीत्वा तथा व्यधुः । दुर्लङ्घ्यं शासनं ह्युग्रशासनानां महीभुजाम् ॥८८२ ॥ शय्यापालोऽपि पञ्चत्वं प्राप वेदनया तया । दुर्विपाकं वेदनीयकर्माऽबध्नाच्च शाईभृत् ॥ ८८३ ॥ नित्यं विषयसंसक्तो राज्यमूर्छापरायणः । स्वदोर्बलावलेपेन तृणाय गणयञ्जगत् ॥ ८८४ ॥
१ शय्यायाम् । २ वारः- परिपाटी:, 'वारो' इति भाषायाम् । ३ असावधाने। ४ मिमील, 'मींच्या' इति भाषायाम् । ५ गलेत्-विस्मरेत् । ६ विष्णु : । ७ आकारगोपनम् । ८ सभायाम् उपविष्टः, "अधेः शी "[२.२.२०] इति द्वितीया । *तां द्रुतम् सं० ॥९ तृणाय' इत्यत्र "मन्यस्यानावादि०" [२.२.६४.] इति सूत्राच्चतुर्थी ।
8888888888888282828282828285
शय्यापालककर्णयोः तप्तत्रपुक्षेपणम्।
६७॥