________________
त्रिषष्टिशलाकापुरुषचरिते ॥६६॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांस
जिन
चरितम्।
828282828282828282828282828
आकेवलाद् द्विमासोनवर्षलक्षैकविंशतिम् । महीं विहरतो जज्ञे परिवारः प्रभोरयम् ॥ ८५७ ॥ मोक्षकालं विदित्वा स्वं प्रभुः संमेतमेत्य च । समं मुनिसहस्रेणानशनं प्रत्यपद्यत ॥ ८५८ ॥ मासमेकं तथा स्थित्वा शैलेशीध्यानमास्थितः । नभःकृष्णतृतीयायां धनिष्ठास्थे निशाकरे ॥८५९ ॥ अनन्तदर्शनज्ञानवीर्यानन्दमयात्मकः । समं तैर्मुनिभिः प्राप भगवान् परमं पदम् ॥ ८६० ॥ कौमारे स्वामिनो वर्षलक्षाणामेकविंशतिः । द्विचत्वारिंशदब्दानां लक्षाण्यवनिपालने ॥८६१॥ प्रव्रज्यापालने वर्षलक्षाणामेकविंशतिः । इत्यायुश्चतुरशीतिवर्षलक्षाण्यजायत ॥ ८६२ ॥ षड्विंशतिसहस्राग्रवर्षषट्षष्टिलक्षकैः । अब्धिशतेन चोनाया अब्धिकोटेर्व्यतिक्रमे ॥ ८६३ ॥ श्रीमच्छीतलनाथस्य मोक्षकालादनन्तरम् । श्रेयांसस्वामिनो जज्ञे निर्वाणगमनोत्सवः ॥८६४ ॥॥युग्मम् ॥ चक्रे निर्वाणकल्याणं सगीर्वाणैः पुरन्दरैः । महतामन्तकालोऽपि पर्वणे न पुनः शुचे ॥८६५ ॥ द्वात्रिंशतान्तःपुरस्त्रीसहस्रविलसन् सुखम् । त्रिपृष्ठोऽपि ततः स्वायुः कियदप्यत्यवाहयत् ॥ ८६६ ॥ स्वयम्प्रभायां जज्ञाते शाईपाणेरुभौ सुतौ । ज्येष्ठः श्रीविजयो नाम कनिष्ठो विजयाह्वयः ॥ ८६७॥ रतिसागरमग्नस्य त्रिपृष्ठस्यान्यदाऽन्तिके। आजग्मुर्गायनाः केऽपि सौस्वर्यादतिकिन्नराः ॥८६८ ॥ गायन्तस्तेऽतिमधुररागवैविध्यबन्धुरम् । हृषीकेशस्य हृदयं जहुः सर्वकलानिधेः ॥ ८६९ ॥ सदा त्रिपृष्ठः पार्श्वस्थांश्चक्रे गीतगुणेन तान् । रज्यन्त्यन्येऽपि गीतेन किं पुनस्तद्विदग्रणीः ॥ ८७०॥
★ त्वाऽथ प्र०।१ नभ:- श्रावणो मासः । षट्त्रिंश० । २ गीर्वाण: देवः । ३ उत्सवाय। ४ शोकाय । ५ गानोपजीविनः । ६ सुस्वरत्वेन किन्नरेभ्योऽपि अतिसुन्दरगानशीलाः । 0 0 धुरं रा०।७ संगीतविदां श्रेष्ठः ।
28282828282828282828282828
| श्रेयांसजिनस्य निर्वाणम्।
॥६६॥