________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ६५ ॥
EDEDEDEDEDEDEDEDEDEDER ER EN I
प्रतिक्षणं प्रभवन्त्यावपि संवरनिर्जरे । प्रकृष्येते यदा मोक्षं प्रसुवाते तदा ध्रुवम् ॥ ८४३ ॥ निर्जरां निर्जरां कुर्वंस्तपोर्भिर्द्विविधैरपि । सर्वकर्मविनिर्मोक्षं मोक्षमाप्नोति शुद्धधीः ॥ ८४४ ॥ एवं देशनया भर्तुर्बहवः प्राव्रजन् जनाः । सम्यक्त्वं प्रतिपेदाते बलभद्र - हरी पुनः ॥ ८४५ ॥ पूर्णायामादिपौरुष्यां व्यसृजद् देशनां विभुः । त्रिपृष्ठपुम्भिश्चानिन्ये चतुःप्रस्थमितो बलिः ॥ ८४६ ॥ स्वाम्यग्रे तत्र चोत्क्षिप्तः सोऽग्राह्यर्धं सुरैः पतन् । शेषस्य पतितस्यार्धं राज्ञाऽन्यदितरैर्जनै : ॥ ८४७ ॥ निर्गत्य चोत्तरद्वारा मध्यवप्रनिवेशिते । देवच्छन्दे रत्नमये निषसाद ततः प्रभुः ॥ ८४८ ॥ षट्सप्ततिगणधरग्रामणीर्गोशुभस्ततः । स्वाम्यङ्घ्रिपीठाध्यासीनो विदधे धर्मदेशनाम् ॥ ८४९ ॥ सोऽपि द्वितीयपौरुष्यां व्यसृजद् धर्मदेशनाम् । स्वं स्वं स्थानं ययुः सर्वेऽपीन्द्रोपेन्द्रबलादयः ॥ ८५० ॥ ततः स्थानात् प्रभुरपि प्रभाकर इवापरः । झानालोकं वितन्वानो विजहार महीतलम् ॥ ८५१ ॥ साधूनां चतुरशीतिसहस्राणि महात्मनाम् । लक्षमेकं च साध्वीनां सहस्रत्रयसंयुतम् ॥ ८५२ ॥ चतुर्दशपूर्वभृतां त्रयोदश शतानि तु । षट्सहस्यवधिमतां मनः पर्ययिणामपि ॥ ८५३ ॥ सार्धानि षट्सहस्राणि केवलज्ञानशालिनाम् । जातवैक्रियलब्धीनामेकादशसहस्यथ ॥। ८५४ ॥ पञ्चैव च सहस्राणि वादलब्धिमतां पुनः । लक्षद्वयं श्रावकाणां सहस्रा नवसप्ततिः ॥ ८५५ ॥ अष्टाचत्वारिंशता च सहस्रैरधिकानि तु । चत्वारि लक्षाणि तथा श्राविकाणां शुभात्मनाम् ॥ ८५६ ॥ ०क्षं प्राप्नो० । २ "प्रस्थ:- 'एक शेर ' इति ख्यातस्य " अमरकोशटीका-कां०
१ कर्मनिर्जरणरूपाम्, निर्जरणम्-ध्वंसः । ★ ०भिर्विवि०
२ श्लो० ८९ । ३ ' अग्राहि+ अर्धम्' इति विभागः । ४ आलोकम्-तेज: ।
REDERER RY
REDEREREREDER
चतुर्थं पर्व
प्रथमः
सर्गः श्रेयांसजिनचरितम् ।
श्रेयांसजिनस्य परिवारादिः ।
॥ ६५ ॥