________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते
प्रथमः सर्गः श्रेयांसजिनचरितम् ।
॥६४॥
1282828282828282828282828286
ज्ञेया सकामा यमिनामकामा त्वन्यदेहिनाम् । कर्मणां फलवत् पाको यद् उपायात् स्वतोऽपि च ॥८३०॥ सदोषमपि दीप्तेन सुवर्णं वह्निना यथा । तपोऽग्निना तप्यमानस्तथा जीवो विशुध्यति ॥८३१॥ अनशनमौनोदर्य वृत्तेः संक्षेपणं तथा । रसत्यागस्तनुक्लेशो लीनतेति बहिस्तपः ॥८३२॥ प्रायश्चित्तं वैयावृत्यं स्वाध्यायो विनयोऽपि च । व्युत्सर्गोऽथ शुभध्यानं षोढेत्याभ्यन्तरं तपः ॥ ८३३ ॥ दीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च । यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥ ८३४ ॥ यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ ८३५ ॥ तथैवाश्रवरोधेन कर्मद्रव्यैर्नवैर्नवैः । अयं न पूर्यते जीवः संवरेण समावृतः ॥८३६ ॥ यथैव सरसस्तोयं संशुष्यति पुराचितम् । दिवाकरकरालांशुपातसंतापितं मुहुः ॥८३७ ॥ तथैव पूर्वसंबद्धं सर्वं कर्म शरीरिणाम् । तपसा ताप्यमानं सत् क्षयमायाति तत्क्षणात् ॥ ८३८ ॥ निर्जराकरणे बाह्याच्छ्रेष्ठमाभ्यन्तरं तपः । तत्राप्येकातपत्रत्वं ध्यानस्य मुनयो जगुः ॥ ८३९ ॥ चिराजितानि भूयांसि प्रबलान्यपि तत्क्षणात् । कर्माणि निर्जरन्त्येव योगिनो ध्यानशालिनः ॥८४०॥ यथैवोपचितो दोषः शोषमायाति लङ्घनात् । तथैव तपसा कर्म क्षीयते पूर्वसंचितम् ॥८४१ ॥ यथा वा मेघसंघाताः प्रचण्डपवनैर्हताः । इतस्ततो विशीर्यन्ते कर्माणि तपसा तथा ॥८४२ ॥
१ व्रतवताम्-व्रतयुक्तानां निर्जरा ज्ञानपूर्विका अन्येषां तु अज्ञानपूर्विका। २ यथा फलं स्वयं पक्कंभवति, उपायादपि पक्कं क्रियते, एवं कर्मणां विपाकोऽपि बोध्यः ।३ औनोदर्यम्-ऊनोदरताम् - बुभुक्षाऽपेक्षया स्वल्पं भोजनम् । ४ व्रतयुक्ताः। तत्रापि-आभ्यन्तरे तपसि ध्यानस्य श्रेष्ठत्वम् इति भावः । ६ वर्धितः शरीरदोषः ।
282828282828282828282828282
निर्जरास्वरूपगर्भा श्रेयांस जिनदेशना।
॥६४॥