________________
त्रिषष्टिशलाकापुरुषचरिते ॥६३॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
128282828282828282828282828
ऋद्धय। महत्या सहितो बलभद्रेण शार्ङ्गभृत् । ययौ समवसरणं शरणं सर्वदेहिनाम् ॥ ८१५ ॥ तत्प्रविश्योत्तरद्वारा नत्वाऽर्हन्तं यथाविधि । सोऽनुशक्रं निषसाद समं मुसलपाणिना ॥८१६ ॥ प्रणम्य स्वामिनं भूयो भक्तिभावितया गिरा । इन्द्रोपेन्द्रबलाः स्तोतुमेवमारेभिरे ततः ॥८१७॥ अमन्दानन्दनिःस्यन्ददायिने परमेश्वर ! । मोक्षकारणभूताय मोक्षायैव नमोऽस्तु ते ॥८१८ ॥ तव दर्शनमात्रेऽपि कर्माण्यन्यानि विस्मरन् । आत्मारामी भवेद् देही किं पुनः श्रुतदेशन ः ॥८१९ ॥ क्षीरोदः किमुदीर्णोऽसि कल्पवृक्षः किमुद्गतः । वर्षकाब्दोऽवतीर्णो वा स्वामिन् ! संसारजन्मिनाम् ॥८२०॥ पीड्यमानस्य विश्वस्यासद्ग्रहै: क्रूरकर्मभिः । एकादशो जिनेन्द्रस्त्वं त्राता ज्योतिष्मतां पतिः ॥८२१॥ त्वयेक्ष्वाकुकुलं नाथ ! निसर्गेणापि निर्मलम् । निर्मलीक्रियतेऽत्यन्तं स्फटिकाश्मेव वारिणा ॥ ८२२ ॥ जगत्त्रयस्य निःशेषसंतापहरणात् प्रभो ! । पादमूलं तवाशेषच्छायाभ्योऽप्यतिरिच्यते ॥ ८२३ ॥ त्वत्पादपद्मयो ङ्गीभूय संप्राप्तसंमदः । नाहं भुक्त्यै न वा मुक्त्यै स्पृहयालुजिनेश्वर ! ॥ ८२४ ॥ भवे भवे भवदीयौ चरणौ शरणं मम । अभ्यर्थये जगन्नाथ ! त्वत्सेवा किं न साधयेत् ? ॥ ८२५ ॥ इति स्तुत्वा विरतेषु वासवोपेन्द्रसीरिषु । श्रेयांसः श्रेयसां हेतुं प्रारेभे देशनामिति ॥८२६ ॥ असावपारः संसारः स्वयम्भूरमणाब्धिवत् । कर्मोर्मिभिर्धाम्यतेऽस्मिस्तिर्यगूर्ध्वमधो जनः ॥ ८२७ ॥ धर्माम्भांस्यनिलेनेव भेषजेन रसा इव । कर्माण्यष्टापि जीर्यन्ति ध्रुवं निर्जरयैव हि ॥ ८२८ ॥ संसारबीजभूतानां कर्मणां जरणादिह । निर्जरा सा स्मृता द्वेधा सकामा कामवर्जिता ॥८२९ ॥
१ वर्षणशील: वर्षकः । * 'रधन्वनि । • इत्यर्थये । २ सीरी - बलदेवः ।
128282828282828282828282828
श्रेयांसजिनस्य देवताकृतस्तुतिः।
श्रेयांसजिनस्य देशना।
॥६३॥