________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ७४ ॥
FREREREREREREREREDERERERERY
एवं जिनपतिं स्तुत्वा गृहित्वा च दिवस्पतिः । गत्वा पार्श्वे जयादेव्या मुमोच प्रणनाम च ॥ ५३ ॥ हृत्वाऽपस्वापनीं देव्यास्तच्चार्हत्प्रतिरूपकम् । ततो द्यां प्रययौ शक्रो मेरुतोऽन्ये तु वासवाः ॥ ५४॥ उत्सवं वसुपूज्योऽपि चक्रे सूर्य इवोदयम् । चेतांसि कमलानीव जगतोऽपि विकासयन् ॥ ५५ ॥ वसुपूज्य-जयादेव्यौ वासुपूज्य इति स्वयम् । यथार्थं नाम चक्राते शुभेऽहनि जगत्पतेः ॥ ५६ ॥ शक्रसंक्रमिताङ्गुष्ठसुधया स्वाम्यवर्धत । धात्र्योऽन्यकर्मभिर्धात्र्योऽर्हतां न स्तन्यदा यतः ॥ ५७ ॥ पञ्चभिर्वासवादिष्टधात्रीभिः परमेश्वरः । छायावत् संहयात्रीभिर्लाल्यमानो व्यवर्धत ॥ ५८ ॥ रत्नस्वर्णमयैर्दिव्यैः कदाचिदपि गेन्दुकै: । शङ्कुलाभिर्वज्ररत्नसंकुलाभिः कदाचन ॥ ५९ ॥ कदाचिच्च भ्रमरकैर्भ्रामिभिर्भ्रमरैरिव । कदाऽप्यामलकीवृक्षारोहणैः संपणं मिथः ॥ ६० ॥ कदाचिद् वेगयानेनान्तर्धानेन कदाचन । कदाचित् फालदानेन कदाऽप्युत्पतनेन च ॥ ६१ ॥ कदाचिद् वारितरणैः सिंहनादैः कदाचन । कदाचिन्मुष्टियुद्धेन नियुद्धेन कदाचन ॥ ६२ ॥ आगतैः सवयोभूय देवासुरकुमारकैः । बाल्योचितं प्रभुः क्रीडन् व्यत्यलङ्घिष्ट शैशवम् ॥ ६३ ॥ ॥ पञ्चभिः कुलकम् ॥
स सप्ततिधनुस्तुङ्गः सर्वलक्षणलक्षितः । मृगीदृशां संवननं प्रपेदे यौवनं प्रभुः ॥
६४ ॥
१ धात्र्यो मातर: । २ सहनिवासाभिः । ३ गेन्दुकाः- भाषायाम् 'गेंद- दडा' इति । ४ शङ्कुळा: 'सांकल' इति भवेत् । ५ भ्रमरका:-' भमरडा' इति भाषायाम् । ६ पणा : प्रतिज्ञावाक्यम्, 'होड-शरत' इति भाषायाम् । ७ अन्तर्धानम् भाषायाम् संताई जवुं- 'संताकूकडी नामनी रमत' । ८ बाहुयुद्धेन । ९ वशीकरणम् ।
EREREREREREREREREREDERERERY
चतुर्थं
द्वितीयः सर्गः
श्रीवासुपूज्य -
चरितम् ।
नामकरणम् ।
॥ ७४ ॥