________________
चतुर्थं पर्व प्रथमः
सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥६०॥
श्रेयांसजिनचरितम्।
8282828282828282828282828285
प्रत्योकः प्रकृतोद्वाहमिव मङ्गलगीतिभिः । पिण्डीभूतजीवलोकमिव संमर्दसंपदा ॥७७४ ॥ प्रविवेश द्विपारूढः संपन्नः प्रौढसंपदा । श्रीपतिः पोतनपुरं पुरं नवमिव श्रियः ॥७७५ ॥
॥चतुर्भिः कलापकम् ॥ प्रजापतिर्खलनजट्यचलोऽन्येऽपि भूभुजः । त्रिपृष्ठस्यार्धचक्रित्वाभिषेकं विदधुस्ततः ॥ ७७६ ॥ इतश्च छद्मस्थतया द्वौमासौ विहरन् विभुः । श्रेयांसो भगवान् प्राप सहस्राम्रवणं वनम् ॥७७७ ॥ तत्राशोकतरोर्मूले स्वामिनः प्रतिमाजुषः । द्वितीयशुक्लध्यानान्ते वर्तमानस्य निश्चले ॥७७८ ॥ ज्ञान-दृष्ट्यावरणीये मोहनीयान्तरायके । प्रणेशु_तिकर्माणि तापे मदनपिण्डवत् ॥७७९ ॥॥ युग्मम् ॥ माघकृष्णपञ्चदश्यां श्रवणस्थे निशाकरे । षष्ठेन तपसा भर्तुरुदपद्यत केवलम् ।। ७८० ॥ देवैः समवसरणे रचिते तत्र देशनाम् । एकादशो जिनपतिर्विदधेऽतिशयान्वितः ॥ ७८१॥ तया देशनया भर्तुः प्रबुद्धा भूरिजन्तवः । विरतिं सर्वतः केऽपि जगृहुर्देशतोऽपरे ॥ ७८२ ॥ गोशुभाद्या गणभृतः षट्सप्ततिरथाभवन् । स्वामिनस्त्रिपदी श्रुत्वा द्वादशाङ्गीमसूत्रयन् ॥ ७८३ ॥ तत्तीर्थभूरीश्वराख्यो यक्षस्त्र्यक्षो वलक्षरुक् । वृषयानो मातुलिङ्गगदिदक्षिणदोर्द्वयः ॥ ७८४ ॥ नकुलाक्षसूत्रयुक्तदक्षिणेतरबाहुकः । श्रेयांसस्वामिनो जज्ञे तदा शासनदेवता ॥ ७८५ ॥ तथैव मानवी देवी गौराड़ी सिंहवाहना । वरदं मदरिणं च दधती दक्षिणौ करौ ॥७८६ ॥ '
१ प्रतिओक:-प्रतिगृहम् । २ संमदः-हर्षः । * 'ढ: प्ररूढ प्रौढसंमदः। ३ ज्ञानावरणीयम्, दर्शनावरणीयं च । ४ 'मदन' इति भाषायाम् 'मीण'। . माघे का५ देशतः विरतिम्-श्रावकधर्मम् । ६ श्वेतकान्तिः। Oगदाद।
8282828282828282828282828282
श्रेयांसजिनस्य केवलज्ञानम् ।
॥६०॥