________________
चतुर्थं पर्व प्रथमः
सर्गः
त्रिषष्टिशलाकापुरुषचरिते ॥६१॥
श्रेयांसजिनचरितम् ।
28282828282828282828282828.
वामौ च बिभ्रती पाणी कुलिशाङ्कर्शधारिणौ । पारिपाश्चिक्यभूद् भर्तुस्तदा शासनदेवता ॥ ७८७ ॥ ताभ्याममुक्तसान्निध्यो विहरन् परमेश्वरः । अन्येद्युः पोतनपुरं पुरप्रवरमाययौ ॥७८८ ॥ तत्र च स्वामिसमवसरणायैकयोजनाम् । मरुत्कुमारा मम॒जुर्मेघाश्च सिषिचुः क्षितिम् ॥ ७८९ ॥ स्वर्णरत्नोपलैस्तां च बबन्धुर्व्यन्तरामराः । जानुदघ्नीः सुमनसः पञ्चवर्णाश्च चिक्षिपुः ॥७९० ॥ तोरणानि प्रतिदिशं भ्रूभङ्गानिव तद्दिशाम् । ते चक्रुस्तद्भवो मध्ये मणिपीठं च पावनम् ॥७९१ ॥ तत्राधो राजतं वप्रं सस्वर्णकपिशीर्षकम् । शीर्षोत्तंसमिव क्षोणेविदधुर्भवनाधिपाः ॥७९२ ॥ सरत्नकपिशीर्षं च तापनीयमथापरम् । स्वज्योतिषेव ज्योतिष्काः प्राकारं विदधुः सुराः ॥७९३ ॥ माणिक्यकपिशीर्षं च दिव्यरत्नशिलामयम् । विमानपतयो वप्रं तार्तीयीकं विचक्रिरे ॥७९४ ॥ सतोरणा चतुरी प्रतिवप्रमजायत । देवच्छन्दक ऐशान्यां मध्यवप्रस्य मध्यतः ॥७९५ ॥ मध्यप्राकारगर्भोव्यां विचक्रे व्यन्तरामरैः । षष्ठ्युत्तरनवधनुःशतोच्चश्चैत्यपादपः ॥७९६ ॥ तस्याधो मणिपीठोां विदधुश्छन्दकं च ते । रत्नसिंहासनं साडिपीठं प्राच्यां तदन्तरे ॥७९७ ॥ तत्रान्यदपि यत् कृत्यं तच्चक्रुर्व्यन्तरामराः । भक्तिमन्तोऽप्रमादेनायुक्तेभ्योऽप्यतिशेरते ॥ ७९८ ॥ श्रेयांसोऽथ प्रभुयॊमस्थितैच्छत्रैखि wभात् । वीज्यमानश्चामराभ्यां यक्षाभ्यां पार्श्वयोर्द्वयो ॥७९९ ॥
28282828282828282828282888
श्रेयांसजिनस्य केवलज्ञानम्।
॥६१॥
१ कुलिशम्-वज्रम् । * कलशाङ्कुश०- 1. "तुः सदा-।२ शुद्धां चक्रुः । ३ जानुप्रमाणाः । ४ शीर्ष-शेखरकम् । ५ तपनीयम् - सुवर्णम्, तेन निर्मितम् । ६ स्वतेजसा । ७ कईशा ।। स्याधिम । “भिर्विभान् ।