________________
चतुर्थं पर्व
प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥५९॥
सर्गः श्रेयांसजिनचरितम्।
282828282828282828282828286
पुनश्च पोतनपुराद् दिग्जयाय जनार्दनः । साग्रजो निर्ययौ रत्नैश्चक्राद्यैः सप्तभिर्वतः ॥७६२ ॥ जिगाय मागधं पूर्वं पूर्वाशामुखमण्डनम् । दक्षिणाशाशिरोदाम वरदामानमप्यथ ॥ ७६३ ॥ पश्चिमाशाकृतोद्भासं प्रभासं च सुरोत्तमम् । विद्याधरेन्द्रानुभयवैताढ्यश्रेणिगानपि ॥७६४॥युग्मम् ॥ श्रेणिद्वयाधिपत्यं चादत्ताग्निजटिने हरिः । फलन्ति हि महात्मानः सेविताः कल्पवृक्षवत् ॥७६५ ॥ दक्षिणं भरतस्यार्धं साधयित्वैमुच्चकैः । दिग्यात्राया न्यवर्तिष्ट त्रिपृष्ठः स्वपुरोन्मुखः ॥ ७६६ ॥ चक्रधरस्यार्द्धऋद्ध्यार्धेनाभाद् दोर्बलेन च । प्रयाणैः कतिभिः प्राप मागधान् माधवस्ततः ॥७६७ ॥ ददर्श कोटिपुरुषोत्पाट्यां तत्र महाशिलाम् । इलाया इव तिलकमिलेशतिलकोऽथ सः ॥ ७६८ ॥ वामेन भुजदण्डेन लीलया तां शिलां हरिः । छत्रायमाणामुद्दधे मूर्ध्न ऊर्ध्वं नभस्तले ॥७६९ ॥ नृपैर्लोकैश्च तद्बाहुस्थामालोकनविस्मितैः । त्रिपृष्ठस्तुष्टुवे सुष्ठ सौष्ठवैर्मागधैरिव ॥ ७७० ॥ तां विमुच्य यथास्थानं प्रस्थितः कतिभिर्दिनैः । नगरं पोतनपुरं श्रियो धाम जगाम सः ॥ ७७१ ॥ मौक्तिकस्वस्तिकाकीर्णं सतारकमिवाम्बरम् । सेन्द्रचापशतमिव तोरणश्रेणिशोभितम् ॥७७२ ॥ आवृष्टवारिदमिव वारिसिक्तमहीतलम् । उद्विमानमिवोत्तुङ्गैर्मञ्चै रुचिरभाजनैः ॥७७३ ॥
१ (१) चक्रम्, (२) वनमाला, (३) नन्दकनामा असिः,(४) कौस्तुभमणिः, (५) पाञ्चजन्यः शङ्खः,(६) कौमोदकी गदा,(७) शार्ङ्ग धनुः-इत्येवं सप्त रत्नानि । २ 'अर्ध-ऋद्धया' अत्र "ऋतृति हस्वो वा" [१.२.२.] इत्यनेन हूस्वत्वे सन्धेरभावः । ३ 'तिलकम् इलेशतिलकः' इति विभागः। ४ छत्रसमानाम्। ★धामाऽऽजगाम- ।
28282828282828282828282828
त्रिपृष्ठअचलचरितम्।
॥५२॥