________________
त्रिषष्टिशलाकापुरुषचरिते ॥५८॥
चतुर्थं पर्व प्रथमः
सर्गः श्रेयांस
जिन
चरितम् ।
12888A888888888888888888888:
तच्चकर्ताऽश्वकण्ठस्य कण्ठं कदलिकाण्डवत् । निजेनैव हि चक्रेण हन्यन्ते प्रतिचक्रिणः ॥७४८॥ मुदितैः खेचरैः पुष्पवृष्टिः शिरसि शाङ्गिणः । निदधे विदधे चौच्चैर्मुदा जयजयारवः ॥ ७४९ ॥ हयग्रीवस्य सैन्येऽपि सदैन्ये रुदितध्वनिः । समुत्तस्थौ प्रतिरवै रोदसी अपि रोदयन् ॥ ७५० ॥ हयग्रीवाङ्गसंस्कारमग्निना स्वजना व्यधुः । निवापमिव कुर्वन्तः पतद्भिर्नयनाश्रुभिः ॥७५१॥ विपद्य च हयग्रीवः सप्तम्यां नरकावनौ । नारकोऽभूत् त्रयस्त्रिंशत्सागरोपमजीवितः ॥७५२ ॥ अत्रान्तरे नभस्युच्चैरूचेऽमरवरैरिति । भो भो नृपतयः ! सर्वे सर्वतो मानमुज्झत ॥ ७५३ ॥ विमुञ्चत हयग्रीवपक्षपातं चिरादृतम् । त्रिपृष्ठं शरणं श्रेष्ठमुपाध्वं किन्तु भक्तितः ॥७५४ ॥ प्रथमो वासुदेवोऽयमुदपद्यत खल्विह । त्रिखण्डभरतक्षेत्रावनेर्भा महाभुजः ॥७५५ ॥ इति दिव्यां गिरं श्रुत्वा हयग्रीवस्य भूभुजः । सर्वेऽप्युपेत्य शिरसा प्रणेमुरचलानुजम् ॥७५६ ॥ रचिताञ्जलयश्चैवमूचुरस्माभिरत्र यत् । अज्ञानात् परतन्त्रत्वाच्चापराद्धं सहस्व तत् ॥ ७५७ ॥ अतः परं वयं नाथ ! त्वदीयाः किङ्करा इव । करिष्यामस्तवैवाज्ञां तदाज्ञापय नः प्रभो ! ॥७५८ ॥ प्रत्यवाच त्रिपृष्ठोऽपि नापराधोऽस्ति कोऽपि वः । क्षत्रियाणां क्रमो ह्येष युद्धं स्वाम्याज्ञया खलु ॥७५९॥ विमुञ्चत प्रतिभयमयं स्वाम्यस्मि वोऽधुना । मदीयीभूय वर्तध्वं स्वस्वराज्येष्वतः परम् ॥ ७६०॥ एवमाश्वास्य तान् राज्ञस्त्रिपृष्ठः सपरिच्छदः । जगाम पोतनपुरं पुरन्दर इवापर : ॥७६१॥ १ अश्वग्रीवस्य । २ आकाशम् पृथ्वीं च । ३ मृतमुद्दिश्य दीयमानो जलाञ्जलिः निवाप: । ४ उज्झत-मुञ्चत । *"रण-श्रेष्ठ। 'वनेर्भोक्ता-।
1282828282828282828282828286
त्रिपृष्ठअचलचरितम् ।
॥५८॥