________________
त्रिषष्टि
शलाकापुरुषचरिते
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
॥५७॥
282828282828282828282828288
अरे ! तिष्ठ हयग्रीव ! सरथं सपरिच्छदम् । गदया चूर्णयाम्यद्य सद्यो मशकमुष्टिवत् ॥ ७३५ ॥ इत्युत्पाट्य गदां शृङ्गं रथावर्तगिरेरिव । दधाव यावत् तावच्च त्रिपृष्ठ : प्रत्यबुध्यत ॥७३६ ॥ आर्यार्य ! भवतः कोऽयमायासो मयि सत्यपि । इति ब्रुवन् सुप्त इव समुत्तस्थौ जनार्दनः ॥७३७ ॥ त्रिपृष्ठमुत्थितं दृष्ट्वा ग्रामादिव समागतम् । दोर्दण्डाभ्यामायताभ्यामालिलिङ्गाथ लाङ्गली ॥७३८ ॥ स्वेशप्रबोधपिशुनो हदि शल्यायितो द्विषाम् । हर्षकोलाहलश्चक्रे हृषीकेशस्य सैनिकैः ॥७३९ ॥ प्रायश्चित्तमिवादित्सु प्रहारकृतपाप्मनः । ईक्षाञ्चके समीपस्थं तच्च चक्रमधोक्षजः ॥ ७४० ॥ तेजोभीमं तदादाय दायादमिव भास्वतः । बलभद्रकनिष्ठोऽपि ससौष्ठवमदोऽवदत् ॥ ७४१॥ ऊर्जितं गर्जितं तादृक् कृत्वा यन्मुमुचे मयि । दृष्टं त्वयौजश्चक्रस्यामुष्याद्राविव दन्तिनः ॥७४२ ॥ गच्छ गच्छाऽधुनाऽपि त्वं स्थविरं पापवृत्तिकम् । मार्जारमिव को नाम त्वां हनिष्यति दुर्मते ! ॥७४३ ॥ इति श्रुत्वा हयग्रीवो दशनैरधरं दशन् । प्रकोपात् कम्पमानाङ्गः सभ्रूभङ्गोऽब्रवीदिति ॥७४४ ॥ अमुना लोहखण्डेन मत्तः प्राप्तेन रे शिशो ! । किं नु मत्तस्तरोः स्रस्तफलेनाऽऽप्तेन पङ्गवत् ॥७४५ ॥ मुञ्च मुञ्च त्वमप्येतत् सारं पश्य ममापि च । चक्रमापतदप्येतद् दलयिष्यामि मुष्टिना ॥ ७४६ ॥ ततः प्रकुपितश्चक्रं भ्रमयित्वा नभस्तले । मुमोच हयकण्ठाय वैकुण्ठोऽकुण्ठशक्तिकः ॥७४७॥
१ लाङ्गली-बलरामः । २ स्वस्वामिप्रबोधसूचकः, प्रबोधः-मूर्छारहितः । ३ प्रहारजन्यपापस्य । ४ अधोक्षजः-वासुदेव:- त्रिपृष्ठ :। ५ यदमुचो म०-का० यद् अमुच:-'अमुचः' इति अद्यतनभूतकाले द्वितीयपुरुषैकवचनम्। ६ 'अमुष्य अद्रौ' इति विभागः । ७ नीचैः पतितेन फलेन प्राप्तेन । ८ बलम् ।९ वैकुण्ठः - वासुदेव: त्रिपृष्ठः ।
1282828282828282828282828284
त्रिपृष्ठअचलचरितम्।
॥५७॥