________________
चतुर्थं पर्व
प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥५६॥
सर्गः
श्रेयांसजिनचरितम्।
1282828282828282828282828282
बालोऽपि केसरी नेभान महतोऽपि पलायते । महतोऽपि हि किं सात तार्थ्यबालोऽपसर्पति ? ॥७२१ ॥ बालोऽपि सन्ध्यारक्षोभ्यः किं क्षुभ्यति दिवाकरः? । बालोऽपि किमहं त्वत्तोऽपसमि रणाङ्गणे? ॥७२२॥ शस्त्राणां प्राक् प्रयुक्तानां दृष्टं तावद् बलं त्वया । विमुच्यास्यापि वीक्षस्व किमवीक्ष्यैव गर्जसि? ॥७२३ ॥ इत्याकर्ण्य हयग्रीवो व्योमाब्धेरौर्ववह्निवत् । शिरसि भ्रमयामास तच्चक्रमतिभीषणम् ॥७२४ ॥ भ्रमयित्वा चिरतरं सर्वस्थाम्ना मुमोच सः । चक्रं तच्च्यवमानार्कमण्डलभ्रान्तिदं क्षणम् ॥७२५ ॥ वक्षःस्थले शैलशिलाविशालकठिने हरेः । चपेटयैव तच्चक्रं पपात न तु धारया ॥७२६ ॥ आहतस्तस्य चक्रस्य तुम्बाग्रेण द्रढीयसा । पपात मूछितो विष्णुः कुलिशेनेव ताडितः ॥७२७ ॥ तस्थौ तत्रैव तच्चक्रं प्रतिजाग्रदिवाम्बरे । हाहारवः सुमुत्तस्थौ विष्णुसैन्येऽखिलेऽपि हि ॥७२८ ॥ प्रतिपक्षप्रहारेण भ्रातरं प्रेक्ष्य मूच्छितम् । मुमूर्च्छ नो हतोऽप्याशु बलभद्रः प्रियानुजः ॥ ७२९ ॥ सिहनादं हयग्रीवश्चक्रे सिंह इवोच्चकैः । तत्सैन्यैर्जयशंसीव चक्रे किलकिलारवः ॥७३० ॥ लब्धसंज्ञः क्षणाद् रामः श्रुत्वा तं चोर्जितं ध्वनिम् । अस्थाने कस्य हर्षोऽयमिति पप्रच्छ सैनिकान् ॥७३१ ॥ तेऽप्यूचुर्देव ! हृष्टानां कुमारस्यापदाऽधुना । हयग्रीवस्य सैन्यानामिदं गर्जितमूर्जितम् ॥७३२ ॥ ऊचे रामोऽपि मद्वन्धोरपि व्यापत्तिरस्ति किम् । रथे शेते क्षणमसौ रणश्रान्तो ममानुजः ॥७३३ ॥ मद्वन्धोापदमिमां व्यलीकां स्वमनीषया । तर्कयित्वा प्रहृष्टानामेष हर्ष हराम्यहम् ॥७३४॥
१ 'न इभान्' इति विभागः। २ तार्थ्यबाल: गरुडः। ३ संध्याराक्षसेभ्यः। *"सि भ्रामया -1 • "तिदक्षिणम्-0 व पर्वतः-।४ आपदातृतीयान्तम् । "पि मे ब।
1282828282828282828282828282
त्रिपृष्ठअचलचरितम्।
॥५६॥