________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
श्रेयांसजिनचरितम् ।
28282828282828282828282828
जहषुर्जहसुब्रैमुरुत्पेतुर्ननृतुर्जगुः । तालाश्च ददुरुत्ताला हयग्रीवस्य सैनिकाः ॥ ७०८ ॥ ततो धनुषि संधाय वारुणास्त्रमवारणम् । क्रोधारुणेक्षणस्तूर्णममुञ्चदचलानुजः ॥७०९ ॥ उन्नेमुर्जलदाः सद्यो हरेरिव मनोरथाः । हयग्रीवाननमिव श्यामयन्तो नभस्तलम् ॥७१० ॥ ववृषुः प्रावृषीवाब्दा धारासारैर्निरन्तरैः । दवाग्निमिव शस्त्राग्नि शमयन्तः समन्ततः ॥ ७११ ॥ एवं तृणवदस्त्राणि प्रेक्ष्य भग्नानि शाङ्गिणा । प्रतिविष्णुरमोघं स्वं चक्रं सस्मार मारिकृत् ॥७१२॥ ज्वालाशतैर्दीप्यमानमरान्तरशतैरिव । समाकृष्य समानीतं मार्तण्डस्यन्दनादिव ॥७१३ ॥ प्रसह्यापहृतमेकमन्तकस्येव कुण्डलम् । परितः कुण्डलीभूय तक्षकाहिमिव स्थितम् ॥ ७१४ ॥ प्रवणत्किङ्किणीजालं त्रासयत् खेचरानपि । स्मृतमात्रोपस्थितं तत् स जग्राहेत्युवाच च ॥७१५ ॥ क्षीरकण्ठोऽस्यरे ! बाल ! णहत्येव ते वधात् । इदानीमप्यपेहि त्वं हणीयेऽद्याप्यहं त्वयि ॥७१६ ॥ न परिस्खल्यते क्वापि कुण्ठीभवति न कचित् । पविः पविधरस्येव चक्रमस्त्रमिदं हि मे ॥७१७॥ मुक्तं चेन्मुच्यसे प्राणैर्विकल्पो न हि कश्चन । क्षत्राभिमानं मा धेहि विधेहि मम शासनम् ॥७१८ ॥ बालोऽसि तन्मया क्षान्तं पूर्वदुर्ललितं तव । बालत्वचापलेनैव याहि जीव ! यदृच्छया ॥७१९ ॥ स्मित्वोवाच त्रिपृष्ठोऽपि वृद्धोऽसि हयकन्धर ! । कोऽन्यथा प्रलपेदेवमुन्मत्त इव दुर्वच : ॥ ७२० ॥
GRER®R&R®R&R®R&RXARXRXARX
त्रिपृष्ठअचलचरितम्।
॥५५॥
१ वारयितुमशक्यम्। २ श्याम कुर्वन्तः। ३ प्रावृषि-मेघसमये। ४ स्यन्दनः-रथः। ५ क्षीरकण्ठो बालः। ६ भ्रुणम्-गर्भः। ७ लज्जा प्राप्नोमि। ८ ईन्द्रस्य। ९क्षत्रियत्वाभिमानम्। ★ "लोडसीति म ।..दो हि हय०-।