________________
चतुर्थं पर्व
त्रिषष्टिशलाकापुरुषचरिते ॥५४॥
प्रथमः सर्गः श्रेयांसजिनचरितम्।
RURURURURXR828282828282828
|| वज्राकरशिलासारं दंष्ट्रां पितृपतेरिव । स्वसारं तक्षकस्येव हयग्रीवोऽमुचत् गदाम् ॥ ६९४ ॥ || अभाङ्क्षीदन्तरिक्षेऽपि मङ्क्ष तामप्यधोक्षजः । वालुकामोदकमिव कौमोदक्या महाभुजः ॥६९५ ॥ एवं भग्नेषु शस्त्रेषु विलक्षो वाजिकन्धरः । विधुरे बन्धुवद् वीरः पन्नगास्त्रमथास्मरत् ॥ ६९६ ॥ चापे संधाय नागास्त्रं मुमोचोदभवन्नथ । अनेकशः प्रस्फुटतो वल्मीकादिव पन्नगाः ॥६९७ ॥ धावन्तः स्फारफुत्कारा भूमौ नभसि चाहयः । पातालकल्पं विदधुस्तिर्यग्लोकं क्षणादपि ॥६९८ ॥ प्रलम्बा दारुणाः कृष्णाः स्फुरन्तस्ते महाऽहयः । सद्यः सहस्रधोद्भूतकेतुशङ्कां वितेनिरे ॥६९९ ॥ मृत्योरिवावसस्तैः सः सर्पद्भिरम्बरे । अपासर्पन दूरदूरं चकिताः खेचरस्त्रियः ॥ ७०० ॥ जज्ञे त्रिपृष्ठसैन्यानामप्याशङ्का महीयसी । स्वामिप्रभावाज्ञत्वेन भक्त्या च भवतीदृशम् ॥७०१॥ गारुडास्त्रमथो धन्वन्यारोप्य गरुडध्वजः । मुमोच मोचादलवत् तस्य शस्त्रस्य पन्नगान् ॥७०२ ॥ प्रादुरासन् गरुत्मन्तो विदधानाः प्रसारिभिः । स्वर्णच्छत्रशताकीर्णामिव द्यां पक्षडम्बरैः ॥७०३॥॥युग्मम् ।। तेषां च पक्षसूत्कारादपि नेशुः समन्ततः । महाऽहयस्तमांसीव सहस्रकिरणोद्गमात् ॥७०४॥ वीक्षापन्नः पन्नगास्त्रमपि वीक्ष्य निरर्थकम् । प्रदध्यावस्त्रमाग्नेयं दुर्धरं हयकन्धरः ॥७०५ ॥ आग्नेयबाणं धनुषि संधाय व्यसृजच्च सः । ज्वालाभिरभितन्वानमुल्काशतमयीं दिवम् ॥७०६ ॥ मग्नं प्रदीपन इव त्रिपृष्ठस्याखिलं बलम् । और्वभीताब्धियादोवत् तदाकुलमजायत ॥ ७०७ ॥
★ ०सारां दं०।१पितृपतिः-यमः । २ भज्यमानात् । ३ केतुशङ्का - ध्वजशङ्का । ४ अवसर्पः-चरः । ५ 'भवति-ईदृशम्' इति विभागः । ६ मोचा-कदली । ७ पक्षसूत्कार:-पक्षध्वनिः । ८ विस्मितः । ९ विस्तारयन्तम् । १० और्व:- वडवानलः।
R&AURURURURURX2828RCRURURUA
त्रिपृष्ठअचलचरितम्।
॥५४॥