________________
त्रिषष्टिशलाकापुरुषचरिते ॥५०॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम् ।
28282828282828282828282828
अस्त्रवृष्टया तयाऽक्लाम्यत् त्रैपृष्ठमखिलं बलम् । धीरा अपि हि किं कुर्युर्भूचरा व्योमचारिषु ? ॥६४२॥ राम-त्रिपृष्ठ-ज्वलनजटिनः स्यन्दनस्थिताः । उत्पेतुर्नभसा सद्यः समं विद्याधरैनिजैः ॥६४३ ॥ नभस्युभयतो विद्याधरा युयुधिरेऽधिकम् । विद्याशक्तिं दर्शयन्तो गुरुष्विव परस्परम् ॥६४४ ॥ भूचरा भूचरैः सार्धं सैन्ययोरुभयोरपि । क्रुध्यन्तः समयुध्यन्त गजा इव गजैर्वने ॥६४५ ॥ विद्याधराणामन्योऽन्यं शस्त्रैः प्रहरतां भृशम् । अदृष्टपूर्वाऽसृग्वृष्टिरुत्पातकृदिवाऽभवत् ॥ ६४६ ॥ अन्योऽन्याऽऽघातशब्देन शब्दायितनभस्तलम् । दण्डसंगीतवत् कैश्चिद् दण्डादण्डि प्रचक्रमे ॥६४७॥ खङ्गदण्डैः सदोर्दण्डचण्डिमानश्च केचन । डिण्डिमानिव कोणेन विपक्षान् पर्यताडयन् ॥६४८ ॥ मिलन्तः केचिदन्योऽन्यमन्यजन्यजयाऽसहाः । स्फारानास्फोटयामासुः स्फुरकान् कांस्यतालवत् ॥ ६४९ ॥ शक्तीः प्रचिक्षिपुः केऽपि सीमन्तितनभस्तलाः । तडत्तडिति कुर्वाणास्तमितस्तोयदा इव ॥६५० ॥ शल्यैः प्रववृषुः केचिदुरगैरिव दारुणैः । पत्रिभिः प्रस्फुरत्पत्रैः पत्रिराजैरिवाऽपरे ॥६५१॥ बले द्वयोरुत्पतितैः पतितैश्चैवमायुधैः । नानायुधमयीव द्यौर्धरित्रीवाऽभवत् तदा ॥६५२॥ . सद्यश्छित्त्वा करोपात्तैः केपि प्रत्यर्थिमौलिभिः । अलक्ष्यन्त रणक्षेत्रे क्षेत्रपाला इवोद्भटाः ॥६५३ ॥ हेरम्बा इव नागास्यैरश्वास्यैः किन्नरा इव । सद्यः कबन्धोपरिष्टात् पतितैः केपि रेजिरे ॥६५४॥
★ 'या क्लान्तं त्रै-1१ दण्डसंगीतम्-भाषायाम् 'दांडिया रास' इति । २ कोण:- वीणावादनकाष्ठम् । ३ स्फुरका:- फलकाः भाषायाम् 'ढाल' इति । ४ पत्रम्-बाणाग्रम्, पक्षं च । ५ पत्रिराज:-गरुडः । . बलैर्द्वयो० । ६ गणपतयः । ७ कबन्धः- क्रियायुक्तं मस्तकरहितं शरीरम्भाषायाम्'धड' इति।
PXXXXXXXXXXXXXXXXXXXXXXRYRE
त्रिपृष्ठअचलचरितम्।
॥५०॥