________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ४९ ॥
REREREREREREREREREREREDERY
भीरवः फेंरव इव प्रणेशुः केऽपि च द्रुतम् । नेत्रे पिधाय लीत्वा च केऽप्यस्थुः शशका इव ॥ ६३१ ॥ उलूकवत् प्रविविशुः कन्दरामुत केचन । केचिदाराटिषुः शङ्खा इव वारिबहिष्कृताः ॥ ६३२ ॥ अभूतपूर्वमम्भोधिसंशोषणमिवात्मनः । सैन्यभङ्गं समाकर्ण्य हयग्रीवोऽब्रवीन्निजान् ॥ ६३३ ॥ क्व रे ! विद्याधरा ! याथ त्रस्ता : शङ्खध्वनेरपिं । वृषभध्वनि॑ितस्येव मृगप्रभृतयो वने ॥ ६३४ ॥ को दृष्टो विक्रमस्तस्य त्रिपृष्ठस्याऽचलस्य वा । यत्त्रस्ताः पशुवद् यूयं चञ्चापुरुषदर्शनात् ॥ ६३५ ॥ नानारणजयोद्भूतं युष्माभिर्हारितं यशः । श्रीच्छिदेऽञ्जनलेशोऽपि धौतस्य श्वेतवाससः ॥ ६३६ ॥ व्यावर्तध्वमिदं वो हि दैवात् स्खलितमागतम् । नभश्चराणां भवतां केऽपरे भूमिचारिणः ? ॥ ६३७ ॥ युध्यध्वं माऽथवा यूयं सभ्यीभवत केवलम् । अहं खलु हयग्रीवः साहाय्यार्थी रणे न हि ॥ ६३८ ॥ इत्युक्ता हयकण्ठेन नमत्कण्ठास्त्रपावशात् । विद्याधरा ववलिरे शैलस्खलितसिन्धुवत् ॥ ६३९ ॥ रथस्थो व्योमयानेन क्रूरग्रह इवापरः । द्विपो ग्रसितुमव्यग्रो हयग्रीवोऽप्यथाचलत् ॥ ६४० ॥ ववर्ष बाणैः पाषाणैः शल्यैरस्त्रैरथापरैः । अधित्रिपृष्ठसैन्यं सोऽस्त्रमेघ इव नूतनः ॥ ६४१ ॥
१ फेरुः शृगालः । २ दृष्टिपथातीता भूत्वा 'संताई जईने' 'छूपाई जईने' इति भाषायाम् । ३ राटिं चक्रु :- भाषायांम् 'राडोपाडी'। ४ जलनिर्गताः । ५ अत्र हेत्वर्थद्योतकपञ्चम्यर्थेऽपि षष्ठी 'वृषभगर्जनात्' इत्यर्थः । ६ चञ्चा पुरुषो नाम पक्षिभयजननाय कृषिक्षेत्रे ऊर्ध्वकृतः तृणमयो वस्त्रमयो वा पुरुषाकृतिविशेष:- भाषायाम् ' चाडिया' इति प्रतीति: । ७ कज्जललवोऽपि भाषायाम् 'भाषायाम् 'कालो डाघ' ।★ रे वेलाऽवलितसिन्धु । ८ त्रिपृष्ठसैन्यस्य अधि उपरि-इत्यर्थ: ।
REDEREREREREDERERERERERERY
चतुर्थं पर्व
प्रथमः
सर्गः
श्रेयांस
जिन
चरितम् ।
त्रिपृष्ठ
अचल
चरितम् ।
॥ ४९ ॥