________________
त्रिषष्टिशलाकापुरुषचरिते ॥४८॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांसजिनचरितम्।
8282828282828282828282828285
अशक्ति : स्वयमाख्याता स्वस्यैभिर्मन्दबुद्धिभिः । शक्तः क एवं कुरुते बालस्येव बिभीषिकाम् ॥६१८ ॥ तदुत्तिष्ठ महावीर ! समारोह महारथम् । उत्तुङ्गादवरोहन्तु मानशैलाच्च विद्विषः ॥६१९ ॥ त्वयि च स्यन्दनारूढे देवेऽपि च दिवाकरे । समुद्यतकरे कस्य तेजो जुम्भिष्यते ननु ॥६२० ॥ इत्युक्ते वह्निजटिना सैन्यमाश्वासयन् निजम् । त्रिपृष्ठो रथिनां प्रष्ठोऽध्यारुरोह महारथम् ॥६२१॥ रथं सांग्रामिकं रामोऽप्यारुरोह सहानुजः । न मुञ्चत्यन्यदाऽप्येकं सोऽनुजं किं पुनर्युधि ॥६२२ ॥ विद्याधराश्च ज्वलनजटिप्रभृतयो रथान् । समारुरुहुरत्युच्चैः सिंहा इव गिरिस्थलीम् ॥६२३ ॥ पुण्याकृष्टास्ततो देवास्त्रिपृष्ठाय समार्पयन् । शार्ङ्ग नाम धनुर्दिव्यं गदां कौमोदकीमपि ॥६२४॥ पाञ्चजन्याभिधं शङ्ख कौस्तुभं नामतो मणिम् । खङ्गं च नन्दकं नाम वनमालेति दाम च ॥६२५ ॥ ददुश्च बलभद्राय हलं संवर्तकाभिधम् । सौनन्दं नाम मुसलं चन्द्रिकानामिकां गदाम् ॥६२६ ॥ तांश्च दृष्टा परे वीराः सर्वे सर्वात्मनाधिकम् । संभूय समयुध्यन्त युध्यन्तकसुता इव ॥६२७॥ शङ्खरत्नं पाञ्चजन्यं जन्यनाटकनान्दिकाम् । त्रिपृष्ठो वादयामास रवाऽऽपूरितदिङ्मुखम् ॥६२८ ॥ संवर्तपुष्करावर्तगजितेनेव तस्य तु । क्षुभ्यन्ति स्म प्रणादेन हयकन्धरसैनिकाः ॥६२९ ॥ केषाञ्चित् पेतुरस्त्राणि पत्राणीव महीरुहाम् । सापस्मारा इवाऽन्ये तु स्वयं पेतुर्महीतले ॥६३०॥
१ सज्जीकृतहस्ते । २ वृद्धि प्राप्यति । ३ श्रेष्ठ : । * ०त पितृवैराः सुता- । ४ 'युधि अन्तकसुता' इति पदविभागः । अन्तकः यमः । ५ संवर्तपुष्करावर्तः-प्रलयकालिकस्तन्नामा मेघः । ६ हयकन्धरः- अश्वग्रीवः । ७ अपस्मारो नाम विशेषप्रकारको वातव्याधिः, यत्र देहकम्पपूर्वकं मूर्छा आगच्छति ।
8282828282828282828282828285
त्रिपृष्ठअचलचरितम्।
॥४८॥