________________
त्रिषष्टिशलाकापुरुषचरिते ॥५१॥
चतुर्थं पर्व प्रथमः सर्गः श्रेयांस
जिनचरितम् ।
128282828282828282828282828
सद्यश्छिन्नै : परिकरे पतित्वाऽवस्थितैः क्षणम् । नाभ्यास्यानीव भूतानि स्वशीर्षेः केऽपि चाऽबभुः ॥६५५॥ कबन्धास्ताण्डवं चक्रुः केषाञ्चिदपि दोष्मताम् । सुरीस्वयंवरोद्भूतसम्मदेनेव भूयसा ॥६५६ ॥ शिरांस्यमुञ्चन् हुङ्कारान् केषाञ्चित् पतितान्यपि । कबन्धारोहणे मन्त्रानुद्गृणन्तीव सादरम् ॥ ६५७ ॥ एवं प्रवृत्ते समरे कल्पान्त इव दारुणे । प्रत्यश्वकन्धररथं त्रिपृष्ठ : प्रेरयद् रथम् ॥ ६५८ ॥ रामोऽपि प्रेरयन् रथ्यान् रथिनामग्रणीरथ । ययौ स्नेहगुणाऽऽकृष्टस्त्रिपृष्ठरथसन्निधिम् ॥६५९ ॥ हयग्रीवोऽपि संपश्यन्नारक्ताभ्यामतिक्रुधा । प्रसारिताभ्यां नेत्राभ्यां तौ पिपासन्निवाब्रवीत् ॥ ६६०॥ प्रधर्षितश्चण्डसिंहो युवयोः कतरेण रे ! । कतरः पश्चिमान्तस्थसिंहघातेन दुर्मदः ॥६६१ ॥ कतरः स्ववधायैव विषकन्यामिवोच्चकैः । कन्यां ज्वलनजटिन: पर्यणैषीत् स्वयम्प्रभाम् ॥ ६६२ ॥ कतरः स्वामिनमपि मूढधीर्मन्यते न माम् । कतरो दत्तफालो मय्यादित्य इव वानरः ॥६६३ ॥ कुतो हेतोरियत्कालं सैन्यक्षय उपेक्षितः । कस्येदानीमवष्टम्भाद् युवां मां समुपस्थितौ ॥६६४ ॥ प्रतिब्रूतमरे बालौ ! युध्येथां च मया सह । क्रमेण युगपद्वापि सिंहेन कलभाविव ॥६६५ ॥ अथाऽचलकनिष्ठस्तमभाषिष्ट कृतस्मितः। अहमेष त्रिपृष्ठोऽस्मि कर्ता त्वदूतधर्षणम् ॥६६६ ॥ पश्चिमान्तहरिं हन्ता परिणेता स्वयम्प्रभाम् । अमन्ता स्वामिनं त्वां च चिरं च त्वामुपेक्षिता ॥६६७ ॥
१नाभौ आस्यं मुखं येषां तानि । २'देवीस्वयंवर' इत्यर्थ :। ३ अश्वकन्धरः-हयग्रीवः ।★ "रयद् द्रुतम् । ४ रथ्यान्-रथयुक्त-घोटकान्। ."निधिः । ५ मयि-मद्रूपे आदित्ये। ६ युवां प्रतिवचनं वदतम् । ७ अवगमयिता। 0 च त्वमुपेक्षित:- ।
188888888888888888888888888
त्रिपृष्ठअचलचरितम्।
॥५१॥