________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ४४ ॥
CAGAGAUDEREDEREREREREREDERY
काकोलैश्चक्रिरे ला गृधैरुपरि जृम्मितम् । स्थितं ध्वजे कपोतेनेत्यासन्नशकुनान्यपि ॥ ५६९ ॥ नाश्वग्रीवो दुर्निमित्ताऽशकुनान्यप्यजीगणत् । यमपाशैरिवाऽऽकृष्टः किं तु प्रायादनर्गलः ॥ ५७० ॥ विद्याधरैर्गतोत्साहैर्नृपैरप्यरणोत्सुकैः । आकृष्टर्विष्टिभिरिव स्वाधीनैरप्यवेष्ट्यत ॥ ५७१ ॥ संपूर्णसैन्यः कतिभि: प्रयाणैराससाद सः । परिष्कृतरथावर्तं तं रथावर्तपर्वतम् ॥ ५७२ ॥ उपत्यकायां तस्याद्रेर्विजयाढ्यगिरेरिव । विद्याधरबलान्यूषुरश्वग्रीवस्य शासनात् ॥ ५७३ ॥ इतश्च पोतनपुरे स विद्याघरपुङ्गवः । उवाच ज्वलनजटी बलभद्रबलानुजौ ॥ ५७४ ॥ नैसर्गिक्याsपि वः शक्त्या प्रतिमल्लो न कश्चन । प्रेमभीरुर्वदामीदं प्रेमास्थानेऽपि भीप्रदम् ॥ ५७५ ॥ स विद्यादुर्मदो दोष्मांनूष्मलोऽनेकँयुज्जयी । हयग्रीवः खलूद्ग्रीवः शङ्कनीयो न कस्य हि ? ।। ५७६ ॥ विद्या विना हयग्रीवादन्यूनं युवयोरपि । तथापि तं युवां हन्तुं समर्थों परमर्थये ॥ ५७७ ॥ युवाभ्यामत्र कर्तव्यो विद्यासिद्ध्यै श्रमो मनाक् । यथा विद्याकृतं मायायुद्धं तस्य वृथा भवेत् ॥ ५७८ ॥ तथेति प्रतिपेदानौ शुचिवस्त्रौ समाहितौ । विद्याः सोऽन्वशिषत् प्रीतमना ज्वलनजट्यथ ॥ ५७९ ॥ मन्त्रबीजाक्षराण्यन्तः स्मरन्तौ भ्रातरावुभौ । अत्यवाहयतां सप्तरात्रमेकाग्रमानसौ ॥ ५८० ॥ सप्तमे दिवसे जातकम्पे फणिपतौ सति । ध्यानाऽऽरूढौ बलोपेन्द्रौ विद्या: समुपतस्थिरे ।। ५८१ ॥
१२
१ काकोला:- वनकाकाः । २ रोला- 'रडारोळ ' इति भाषायाम् । ३ आसन्+अशकुनानि-अपशकुनानि । ४ उद्धतः । ५ विष्टि:- नरके हठात् क्षेपः । ६ परिष्कृतः रथावर्त्तः रथभ्रमणमार्गः यत्र तम् । ७ उपत्यका तलहट्टी । ८ नैसर्गिकी सहजा । ९ प्रचण्ड: । १० 'अनेकयुध् + जयी' इति विभागः । ★ सिद्धौ । ११ स्वीकृतवन्तौ । १२ समागताः ।
FREREREREREDERERERERERERERY
चतुर्थं पर्व
प्रथमः
सर्गः श्रेयांसजिन
चरितम् ।
त्रिपृष्ठ
अचल
चरितम् ।
॥ ४४ ॥