________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥४३॥
सर्गः
श्रेयांसजिनचरितम्।
RSASRURSASANASASASASRSASRS
तेन दुन्दुभिशब्देन सद्यः सर्वेऽपि सैनिकाः । एयुः सर्वाभिसारेण दूरात् पार्श्वस्थिता इव ॥ ५५७ ॥ स्नानागारं हयग्रीवो गत्वा भृङ्गारवारिभिः । गङ्गातरङ्गैरुत्तुङ्गैः सस्नौ हंस इवाऽमलैः ॥५५८ ॥ उन्मृष्टाङ्गो दुकूलेन दिव्यधूपैश्च धूपितः । शुभ्रीकृताङ्गो गोशीर्षचन्दनैनन्दनाऽऽहतैः ॥५५९ ॥ संवीतसदशश्वेतवस्त्रो बद्धाऽसिधेनुकः । पुरोधःकृततिलकः स राजतिलकस्ततः ॥५६०॥ वैतालिकै: स्तूयमानो विशदच्छत्रचामरः । मदसिक्तावनितलमारुरोह महागजम् ॥५६१॥
॥त्रिभिर्विशेषकम् ॥ दारैर्वारणैरश्वै रथैश्च परिवारितः । प्रचचाल हयग्रीवश्चलयन्नचलानपि ॥५६२॥ गच्छतस्तस्य सहसोद्भूतचण्डानिलेन तु । छत्रस्याऽऽन्दोल्यमानस्य दण्डोऽभज्यत वृक्षवत् ॥ ५६३ ॥ अनोकहात् पुष्पमिव तारकेव नभस्तलात् । हयग्रीवशिरसस्तत् पपाताऽऽतपवारणम् ॥५६४॥ मदस्तदानी करिणस्तस्य चाशुष्यदञ्जसा । सरसी ज्येष्ठमासीव शरदीव च कर्दमः ॥५६५ ॥ मोमूत्र्यते स्म तत्कालं कालभीत इव द्विपः । ररास विरसं चापि नोद्धरं च शिरो दधौ ॥५६६॥ रजोवृष्टिरसृग्वृष्टिर्दिवा नक्षत्रवीक्षणम् । उल्कापातस्तडित्पात इत्युत्पाताश्च जज्ञिरे ॥५६७ ॥ दीनस्वरं प्ररुदितं सारमेयैरुदाननैः । आविर्भूतं च शशकैश्चिल्लीभिर्धान्तमम्बरे ॥५६८ ॥
१ भृङ्गार:-सुवर्णपात्रम् । * कृताङ्गरागो गो० । २ नन्दनवनादानीतै :। ३ असिधेनुका-छुरिका । ४ अचला:-पर्वताः। ५ चण्डानिलेनप्रचण्डपवनेन । ६ वृक्षात् । ७ उन्नतम् । ८ असृग्-रुधिरम् । ९ ऊर्ध्वमुखैः श्वान : । १० चिल्ली 'समळी' इति भाषायाम्।'चिल' इति हिन्दीभाषायाम्।
28282828282828282828282828
| त्रिपृष्ठ-अचल
चरितम्।
| ॥४३॥