________________
चतुर्थं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥४२॥
सर्गः
श्रेयांसजिनचरितम्।
SRSASRSRURSASRURSASRSASRSRS.
सर्वे सर्वाभिसारेण भोः समागच्छत द्रुतम् । चलत्विदानीं नः सैन्यमुद्वेल इव सागरः ॥५४४ ॥ सत्रिपृष्ठाऽचलं साग्निजटिनं तं प्रजापतिम् । संहराम्येष समरे द्राग् धूमो मशकानिव ॥५४५ ॥ इत्युक्तवन्तं सामर्षमश्वकन्धरमुद्धरम् । धीगुणग्रामधामोचे सचिवग्रामणीरिदम् ॥५४६॥ त्रिखण्डं भरतं स्वामी लीलयैवाऽजयत् पुरा । कीत्यै लक्ष्म्यै च तज्जन्ये धुरि जातोऽसि दोष्मताम् ॥५४७ ॥ इदानीमेकसामन्तविजयायोद्यतः स्वयम् । कां कीर्तिमथ कां लक्ष्मीमर्जयिष्यति नः प्रभुः ? ॥५४८ ॥ न्यूनस्य विजयेऽपि स्यान्नोत्कर्षः कोऽपि दोष्मताम्। का श्लाघा हरिणवधे हरेः करिविदारिणः ॥५४९ ॥ न्यूनेन विजये दैवात् सर्वोऽप्येकपदे व्रजेत् । पूर्वाऽर्जितो यशोराशिविचित्रा हिरणे गतिः ॥५५०॥ सिंहवध-चण्डसिंहधर्षणप्रत्ययादपि । सत्यनैमित्तिकगिरा तत्र शङ्काऽऽस्पदं महत् ॥ ५५१ ॥ षाङ्गण्यादासनगुणो धर्तुमत्रोचितः प्रभोः । महागजोऽपि ह्यज्ञात्वा धावन् पङ्के निमज्जति ॥ ५५२ ॥ सोऽर्भस्तु रभसाकारी क्वचिच्छरभवद् द्रुतम् । उत्पत्य भक्ष्यते सेत्स्यत्यासीनस्यापि ते हितम् ॥५५३ ॥ तितिक्षितुमथेदृक्षं न क्षमोऽसि क्षमापते ! । आदिश्यतां तर्हि सैन्यं त्वत्सैन्यं हि सहेत कः?॥५५४ ॥ तथ्यां पथ्यां च तद्वाचमवामन्यत भूपतिः । मन्यावन्तर्मधुनीव चेतनास्तु कुतो नृणाम् ? ॥ ५५५ ॥ कातरोऽसीति सचिवं तं निर्भय॑ सरोषणः । क्षणेन वादयामासाऽऽयुक्तैः प्रस्थानदुन्दुभिम् ॥५५६ ॥
१ सर्वतः अभिमुखतया सर्वसामण्या वा। २ ऊर्ध्ववेलायुक्त:- 'वेला' भाषायाम् 'वेळ'-'भरती' इति । ३ जन्यम्- युद्धम्। ४ बाहुबलवताम् । ★ 'धा हारि० । ५ एकपदे-शीघ्रम्।. 'का पदम्-१६ बालकः त्रिपृष्ठ : ७ अपमानितां चकार । ८ 'मन्यौ अन्तर्मधुनि-इति विभागः । अन्तर्मधुनि मदिरायां पीतायाम्। 'वं निर्भत्स्य रोमहर्षणः ।
1282828282828282828282828286
त्रिपृष्ठ-अचल
अश्वग्रीवचरितम्।
॥४२॥