________________
चतुर्थं पर्न प्रथमः
त्रिषष्टिशलाकापुरुषचरिते ॥४५॥
सर्गः श्रेयांसजिनचरितम् ।
282828282828282828282828282
गारुडी रोहिणी चैव भुवनक्षोभणी तथा । कृपाणस्तम्भनी स्थामशुम्भनी व्योमचारिणी ॥५८२ ॥ तमिस्रकारिणी सिंहवासिनी वैरिमोहिनी । वेगाऽभिगामिनी दिव्यकामिनी रन्ध्रवासिनी ॥५८३॥ कृशानुवर्षिणी नागवासिनी वारिशोषिणी । धरित्रीदारिणी चक्रमारणी बन्धमोचनी॥५८४ ॥ विमुक्तकुन्तला नानारूपिणी लोहशृङ्खला । कालराक्षसिका छन्नदशदिक् तीक्ष्णशूलिनी ॥५८५॥ चन्द्रमौलिश्च विजयमङ्गला ऋक्षमालिनी । सिद्धताडनिका पिङ्गनेत्रा वचनपेशला ॥ ५८६ ॥ ध्वनिताहिफणा घोरघोषिणी भीरुभीषिणी । विद्या इत्यादयः प्रोचुर्वशे स्मो युवयोरिति ॥५८७ ॥ पारयामासतुवा॑नं सिद्धविद्यावुभावपि । पुण्याऽऽकृष्टं स्वयं सर्वं किं किं न स्यान्महात्मनाम् ? ॥ ५८८॥ अथ त्रिपृष्ठः सज्येष्ठ : श्रेष्ठेऽह्नि विपुलैर्बलैः । प्रजापतिज्वलनजट्यादिभिः प्रास्थितोच्चकैः ॥५८९॥ तुङ्गैस्तुरङ्गै रङ्गद्भिर्वेगिभिर्गरुडैरिव । जयश्रीवेश्मभिर्वैर्यास्कन्दनैः स्यन्दनैरपि ॥५९० ॥ मदोद्धरैः कुञ्जरैरप्यतिनिर्जरकुञ्जरैः । शार्दूलैरिव चोत्फालगामिभिर्वरपत्तिभिः॥५९१॥ नभश्चरैर्भूचरैश्च द्यां मां च छादयन् भृशम् । शकुनैरनुकूलैः प्रेर्यमाणः स्वजनैरिव ॥५९२ ॥ तर्यनादैर्दिशो भिन्दन् हेषा-बंहितबंहितैः । सैन्यप्राग्भारभारेण कम्पयंश्च वसुन्धराम् ॥५९३॥
6882828282828282828282828286
त्रिपृष्ठ
अचलचरितम्।
॥४५॥
★ सिंहवाहिनी-सं०।०त्रीदारणी नागबन्धनी बन्ध०।- चुवंशाः स्मो- । १ प्रास्थित- प्रस्थानं कृतवान्। २ आस्कन्दनम् - पराभवः । ३ देवहस्तितोऽपि अधिकशोभायुतैः । ४ हेषा अश्वशब्दः ‘हणहणाट' इति भाषायाम् । बृंहितम्-गजगर्जनम् ।