________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम् ।
॥५३॥
12828282828282828282828282829
त्रयस्त्रिंशत्रायस्त्रिशैश्चतुर्भिर्लोकपालकैः । पर्षद्भिस्तिसृभिः सैन्यैः, सैन्यनाथैश्च सप्तभिः ॥ ४३६ ॥ चत्वारिंशता सहस्रश्चाऽऽत्मरक्षदिवौकसाम् । उत्तरासङ्गवानग्रे, विमुच्य कुसुमाञ्जलिम्॥४३७॥ कृतचर्चाश्चन्दनेन, स्मेराब्जपिहिताननान् । अष्टोत्तरं सहस्रं स, कुम्भान् देवैः सहाऽग्रहीत् ॥ ४३८ ॥ तान् कुम्भान् लोठयामास, स्वामिमूर्धन्यथाऽच्युतः । भक्तिप्रकर्षतः कुर्वन्नात्मवन्नमिताननान्॥४३९ ॥ स्वामिसङ्गात् तदम्भोऽगात्, पुण्यमप्यतिपुण्यताम् । तापनीये हलङ्कारे, सुतरां द्योतते मणिः ॥ ४४० ॥ पानीयधारोगिरणान्नदन्तः कलसाश्च ते । स्वामिस्नात्रविधौ मन्त्रान्, पठन्त इव रेजिरे ॥ ४४१ ॥ कुम्भेभ्यो निपतंस्तेभ्योऽम्भःप्रवाहो महांस्तदा । स्वामिलावण्यसरितावेणीसङ्गमतां ययौ ॥ ४४२ ॥ अङ्गेषु स्वामिनः स्वर्णगौरेषु प्रसरत् पयः । तद् गाङ्गमिव हैमेषु, पद्मखण्डेष्वराजत ॥ ४४३ ॥ आ सर्वाङ्गं प्रसरता, निर्मलेनाऽतिहारिणा । वारिणा शुशुभे तेन, संसंव्यान इव प्रभुः ॥ ४४४ ॥ तत्रेन्द्रेभ्यः सुरेभ्यश्च, केऽपि भक्तिभराकुलाः । उत्क्षिप्य स्नपयितृभ्यः, पूर्णकुम्भानुपानयन् ॥ ४४५ ॥ तस्थुश्छोयाकराः केचित्, केचिच्चामरपाणयः । उर्दूपदहनाः केचित्, पुष्पगन्धभृतोऽपरे ॥ ४४६ ॥ पेठुः स्नात्रविधि केऽपि, केपि चक्रुर्जयारवम् । केचिच्च ताडयामासुर्दुन्दुभीन् कोणपाणयः ॥ ४४७॥ केप्युत्फुलकपोलास्यास्तारं शङ्खानपूरयन् । मिथ आस्फालयामासुः, कांस्यतालानथाऽपरे ॥४४८॥
आजघ्नुर्झल्लरीः केपि, रत्नदण्डैरखण्डितैः । केचिदुन्नादचण्डिम्नो, डिण्डिमान् पर्यताडयन् ॥ ४४९ ॥ १ विकसितकमलाच्छादितमुखान् । २ सौवर्णे ।३ शब्दायमानाः । ४ सुवर्णकमलेषु गङ्गावारीव । ५ उत्तरीयेण सहित इव । ६ छत्रधारिणः ।७ यष्टिपाणयः।
12828282828282828282828282828
मेरुशिरसि अच्युतेन्द्रविहितमजितजिनपूजनम्।
॥५३॥