________________
त्रिषष्टि
शलाका
पुरुषचरिते
॥ ५२ ॥
CRCRCRC
ERERE DERY
एतावन्तश्च भृङ्गारा, दर्पणा भाजनानि च । पात्र्यश्च सुप्रतिष्ठाश्च तथा रत्नकरण्डकाः ॥ ४२२ ॥ पुष्पचङ्गेरिकाश्चापि, प्रत्येकं तैर्विचक्रिरे । अकालक्षेपतः कोशागारादिव समाहृताः ॥ ४२३ ॥ आदाय तांश्च ते देवाः, कलसार्नलसेतराः । सरसीवाऽम्बुहारिण्यो, ययुः क्षीरोदसागरे ॥ ४२४ ॥ उद्बुद्बुदरवैः कुम्भैरुन्मङ्गलरवैरिव । स्वैरं क्षीरोदकं तत्र, तेऽगृह्णन् जलदा इव ॥ ४२५ ॥ पुण्डरीकाणि पद्मानि कुमुदान्युत्पलानि च । सहस्रपत्राणि शतपत्राण्याददिरे च ते ॥ ४२६ ॥ उपेत्य पुष्करोऽपि, तेऽम्बुधौ पुष्करादिकम् । भृशायमाना जगृहुद्वपे सांयात्रिका इव ॥ ४२७ ॥ भरतैरवतक्षेत्रवर्तिनामुदकादिकम् । तीर्थानां मागधादीनामप्युपाददिरे सुराः ॥ ४२८ ॥ गङ्गादिषु हृदिनीषु, पद्मादिषु हृदेषु च । मृदम्भोजानि जगृहु:, सन्तप्ताः पथिका इव ॥ ४२९ ॥ सर्वतः कुलशैलेभ्यो, वैताढ्येभ्यश्च सर्वतः । सर्वतो विजयेभ्यश्च, वक्षारेभ्यश्च सर्वतः ॥ ४३० ॥ देवोत्तरकुरुभ्यश्च, सुमेरुपरिधिस्थितात् । भद्रशालान्नन्दनाच्च, सौमनसाच्च पाण्डकात् ॥ ४३१ ॥ पर्वतेभ्यश्च मलय-दर्दुरादिभ्य ओषधीः । गन्धान् पुष्पाणि सिद्धार्थांस्तेऽगृह्णस्तुवराणि च ॥ ४३२ ॥ ॥ त्रिभिर्विशेषकम् ॥ तानि द्रव्याणि सर्वाणि, मेलयन्ति स्म नाकिनः । भेषजानीव भिषजो, गन्धानिव च गान्धिकाः ॥ ४३३ ॥ तदुपादाय ते सर्वमुपस्वामि समाययुः । अच्युतेन्द्रस्य मनसा, स्पर्द्धमाना इवाऽऽदरात् ॥ ४३४ ॥ ततश्च भक्तिभागिन्द्र आरणा - ऽच्युतकल्पयोः । वृतः सहस्रैर्दशभिः सामानिकदिवौकसाम् ॥ ४३५ ॥
१ अप्रमादिनः । २ नौव्यापारिणः ।
FRERERERERERERERERERERERERY
द्वितीयं पर्व द्वितीयः सर्गः
अजित
सगर
चरितम् ।
मेरुशिरसि अच्युतेन्द्रविहितम
जितजिन
पूजनम् ।
॥ ५२ ॥