________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ५४ ॥
FRERERERERERERERERERERERERE
नर्तकीवत् केऽप्यनृत्यन्नुच्चैस्ताललयानुगम् । ननृतुर्विकृतं केऽपि, हास्याय विटचेटवत् ॥ ४५० ॥ गायनीवत् केऽप्यगायन्, प्रबन्धैः करणादिभिः । जगुर्गीपालवत् केचिदुच्छृङ्खलगलस्वरम् ॥ ४५१ ॥ द्वात्रिंशत्पात्रकं केऽपि, नाटकाभिनयं व्यधुः । केचिदप्युत्पतन्ति स्म, निपतन्ति स्म केचन ॥ ४५२ ॥ रत्नानि ववृषुः केऽपि, ववृषुः केऽपि काञ्चनम् । अवर्षन् भूषणान्येकेऽवर्षंश्चूर्णानि केचन ॥ ४५३ ॥ ववृषुः केऽपि माल्यानि, पुष्पाणि च फलानि च । ववल्गुश्चतुरं केचित् केचित् क्ष्वेडां च चक्रिरे ॥ ४५४॥ हेषां विदधिरे केऽपि, चक्रिरे केऽपि बृंहितम् । रथघोषं व्यधुः केऽपि, नादांस्त्रीन् केऽपि चक्रिरे ॥ ४५५ ॥ केऽपि चाचालयन् पादददरैर्मन्दराचलम् । मेदिनी दलयामासुश्चपेटाभिश्च केचन ॥ ४५६ ॥ केचिदानन्दबहलं, मुहुः कोलाहलं व्यधुः । भ्रमन्तो मण्डलीभूय, जगुः केऽपि च रासकान् ॥ ४५७ ॥ कृत्रिमं जज्वलुः केऽपि, प्रणेदुः केऽपि कौतुकात् । अगर्जन्नूर्जितं केऽपि, विद्युद्वत् केचिदद्युतन् ॥ ४५८ ॥ एवं विचित्रमानन्दाच्चेष्टमानेषु नाकिषु । अच्युतेन्द्रो भगवतोऽभिषेकमकरोन्मुदा ॥ ४५९ ॥ शिरस्यञ्जलिमुत्तंससन्निभं विरचय्य सः । व्याजहार जय जयेत्युच्चैरव्याजभक्तिभाक् ॥ ४६० ॥ वस्त्रेण देवदूष्येण, ममार्ज स्वामिनस्तनुम् । दक्षसंवाहक इव, सुखस्पर्शेन पाणिना ॥ ४६१ ॥ आनन्दं नाटयन्नुचैर्नाट्यं नट इवाऽच्युतः । पुरतस्त्रिजगद्भर्तुरभ्यनैषीत् सहामरैः ॥ ४६२ ॥ गोशीर्षचन्दनरसैः, स्वामिनोऽथ विलेपनम् । दिव्यैर्भीमैश्च कुसुमैरर्चां च विदधेऽच्युतः ॥ ४६३ ॥ १ हास्यकारकनटवत् । २ गायकीवत् । ३ सिंहनादम् । ४ अश्वनादम् । ५ हस्तिनादम् । ७ करतलघातैः । ८ शिरोभूषणसदृशम् । ९ अङ्गसंवाहनकर्मणि चतुरः सेवक इव ।
६ पादघातै:
GREREDEREREDERERERERERERERE!
द्वितीयं पर्व द्वितीय: सर्गः
अजितसगर
चरितम् ।
मेरुशिरसि अच्युतेन्द्रविहितम
जितजिन
पूजनम् ।
॥ ५४ ॥