________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम्।
282828282828282828282828286
कुम्भो भद्रासना-ऽऽदर्शो, श्रीवत्स-स्वस्तिकावपि । नन्द्यावर्तो वर्धमानो, मत्स्य इत्यष्टमङ्गलीम् ॥ ४६४॥ अत्यच्छै रजतमयैरखण्डैरथ तण्डुलैः।आरणा-ऽच्युतकल्पेन्द्र, आलिलेखाऽग्रतः प्रभोः॥४६५॥॥युग्मम्॥ भक्तिनिघ्नो जानुदलं, कुसुमप्रकरं ततः । अमुञ्चत् पञ्चवर्णं स, सन्ध्याभ्रकणिकोपमम् ॥ ४६६ ॥ उत्तोरणामिव दिवं, कुर्वाणो धूमवर्तिभिः । उर्दूपदहनो धूपमधूपायदथाऽच्युतः ॥ ४६७॥ उत्क्षिप्यमाणे धूपे च, वाद्यमानाऽमरोत्तमैः । सङ्क्षिप्तेव महाघोषा, घण्टा तारस्वरा बभौ ॥ ४६८ ॥ हरिरुत्तारयामासाऽऽरात्रिकं स्वामिने स्वयम् । उच्छिखामण्डलं ज्योतिर्मण्डलश्रीविडम्बकम् ॥ ४६९ ॥ ततः पदानी सप्ताष्टान्यपक्रम्य प्रणम्य च । रोमाञ्चितोऽच्युतपतिः, स्तोतुमेवं प्रचक्रमे ॥ ४७० ॥ जात्यजाम्बूनदच्छेदविच्छन्नभस्तल! प्रभो! तवाधौतशुचिः, कायः कमिव नाऽऽक्षिपेत्? ॥ ४७१ ॥ मन्दारदामवन्नित्यमवासितसुगन्धिनि । तवाऽने भृङ्गतां यान्ति, नेत्राणि सुरयोषिताम् ॥ ४७२ ॥ दिव्यामृतरसास्वादपोषप्रतिहता इव । समाविशन्ति ते नाथ!, नाऽङ्गे रोगोरगव्रजाः ॥ ४७३ ॥ त्वय्यादर्शतलालीनप्रतिमाप्रतिरूपके । क्षरत्स्वेदविलीनत्वकथाऽपि वपुषः कुतः? ॥ ४७४ ॥ न केवलं रागमुक्तं, वीतराग! मनस्तव । वपुःस्थितं रक्तमपि, क्षीरधारासहोदरम् ॥ ४७५ ॥ जगद्विलक्षणं किं वा, तवाऽन्यद् वक्तुमीश्महे? । यदवित्रमबीभत्सं, शुभ्रं मांसमपि प्रभो! ॥ ४७६ ॥ जल-स्थलसमुद्भूताः, सन्त्यज्य सुमनःस्रजः । तव निःश्वाससौरभ्यमनुयान्ति मधुव्रताः ॥ ४७७॥ १ अतिस्वच्छैः । २ जानुप्रमाणम् । ३ सुवर्णम् । ४ आदर्शतलप्रतिबिम्बितप्रतिमासदृशे । ५ दुग्धधारासदृशम् । ६ दुर्गन्धरहितम् । ७ कुसुममालाः ।
282828282828282828282828286
मेरुशिरसि अच्युतेन्द्रविहितमजितजिनपूजनम्।