________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम् ।
2828282828282828282828RXAUR
लोकोत्तरचमत्कारकरी तव भवस्थितिः । यतो नाऽऽहार-नीहारौ, गोचरश्चर्मचक्षुषाम् ॥ ४७८ ॥ इति स्तुत्वा प्रभुं किञ्चिदपक्रम्य कृताञ्जलिः । शुश्रूषातत्परस्तस्थावच्युतोऽच्युतभक्तिभाक् ॥ ४७९ ॥ इन्द्रा द्वाषष्टिरन्येऽपि, क्रमेण सपरिच्छदाः । अभिषेकं जगद्भर्तुश्चक्रुरच्युतनाथवत् ॥ ४८० ॥ तद्वत् स्तुत्वा नमस्कृत्याऽपक्रम्य च कृताञ्जलि । उपासाञ्चक्रिरे नाथं, तत्पराः किङ्करा इव ॥ ४८१॥ अथ सौधर्मकल्पेन्द्र, इव द्रागतिभक्तितः । विचक्रे पञ्चधाऽऽत्मानं, द्वितीयस्वर्गवासवः ॥ ४८२ ॥ अतिपाण्डुकम्बलायामर्धचन्द्रसमाकृतौ । ऐशानकल्पवत् सिंहासनमेकोऽथ शिश्रिये ॥ ४८३ ॥ शक्रोत्सङ्गान्निजोत्सङ्गं, रथादिव रथान्तरम् । स समारोपयामास, यतमानो जगद्गुरुम् ॥ ४८४ ॥ आतपत्रं दधारैको, विशदं स्वामिमूर्धनि । धारयामासतुश्चान्यौ, चामरे प्रभुपार्श्वयोः ॥ ४८५ ॥ पञ्चमः शूलपाणिः सन्, पुरस्तस्थौ जगत्पतेः । प्रतीहार इवोदारेणाऽऽकारेण मनोरमः॥४८६॥ ततः सौधर्मकल्पेन्द्रोऽप्यमरैराभियोगिकैः। अभिषेकोपकरणद्रव्याण्यानाययद् द्रुतम् ॥४८७॥ दिक्षु प्रभोश्चतसृषु, स्फटिकाद्रीनिवाऽपरान् । स्फाटिकान् सोऽतिचतुरश्चतुरो व्यकरोद् वृषान् ॥ ४८८ ॥ तेषां वृषाणां शृङ्गेभ्योऽष्टभ्य उत्पेतुरुज्ज्वलाः । अष्टाम्बुधारा धवला, रश्मिदण्डा इवैन्दवाः ॥ ४८९॥ समुत्पत्य मिलन्ति स्म, पुरो नद्य इवैकतः । निपतन्ति स्म पयसां पत्याविव जगत्पतौ ॥ ४९० ॥ अभिषेकं जगद्भर्तुरेवङ्कारं चकार सः । भङ्यन्तरेण कविवच्छक्ताः स्वं ज्ञापयन्ति हि ॥४९१॥ मार्टि विलेपनं पूजामष्टमङलिकामपि । आरात्रिकं च विधिना, विदधे सोऽच्युतेन्द्रवत् ॥ ४९२॥
१ अतिदक्षः। २ समुद्रे । ३ मार्जनम् ।
282828282828282828282828282
मेरुशिरसि त्रिषवटीन्द्र विहितमजितजिनपूजनम्
॥५६॥