________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
॥५७॥
अजितसगरचरितम् ।
28282828282828282828282828
शक्रस्तवेन वन्दित्वा, प्रणम्य च जगत्पतिम् । हर्षगद्गदया वाचा, स स्तोतुं प्रास्तवीदिति ॥ ४९३ ॥ जय त्रिभुवनाधीश!, जय विश्वैकवत्सल! । जय पुण्यलतोद्भेदनवाम्बुद! जगत्प्रभो! ॥ ४९४ ॥ स्वामिन्! विमानाद् विजयादवतीर्णोऽसि भूतले । इदं जगत् प्रीणयितुं, सरिदोघ इवाचलात् ॥ ४९५ ॥ बीजं मोक्षद्रुमस्येव, ज्ञानत्रितयमुज्ज्वलम् । स्वामिन्नाजन्मसिद्धं ते, शीतलत्वमिवाम्भसः ॥ ४९६ ॥ ये त्वां त्रिभुवनाधीश!, धारयन्ति सदा हदि । सम्मुखीनाः श्रियस्तेषामादर्शप्रतिबिम्बवत् ॥ ४९७ ॥ उल्बणैर्बाध्यमानानां, कर्मरोगैः शरीरिणाम् । दिष्ट्या त्वमगदङ्कारप्रतीकारकरोऽभवः ॥४९८ ॥ त्वदर्शनसुधासारास्वादस्य त्रिजगत्पते! । मरुपान्था इव वयं, न तृप्यामो मनागपि ॥ ४९९ ॥ रथः सारथिनेवाऽद्य, कर्णधारेण नौरिव । पथा व्रजतु लोकोऽयं, त्वया नेत्रा जगत्पते! ॥५०० ॥ त्वत्पादपद्मशुश्रूषासमयाधिगमेन नः । भगवन्निदमैश्वर्यं, कृतार्थमधुनाऽभवत् ।।५०१॥ स्तुत्वैवमादिभिः श्लोकैरष्टोत्तरशतेन तम् । विचक्रे पञ्चधा रूपं, प्राग्वत् प्राचीनबर्हिषा ॥५०२॥ नाथमेकोऽग्रहीच्छत्रमेको द्वावथ चामरे । वज्रपाणिः पुरस्तस्थावेकः शक्रस्तु पूर्ववत् ॥५०३ ॥ ततो मनोवत् स याकामीनः सपरिच्छदः । विनीतात्मा विनीतायां, जितशत्रुगृहं ययौ ॥५०४ ॥ तीर्थकृत्प्रतिरूपं स, संवते तत्र तत्क्षणात् । विजयास्वामिनीपार्श्वे, तीर्थनाथं न्यधत्त च ॥५०५ ॥ उच्छीर्षे कुण्डलद्वन्द्वं, न्यधादर्केन्दुसोदरम् । देवदूष्यं च मसृणं, कोमलं शीतलं प्रभोः ॥५०६ ॥ दिवोऽवतरदर्काभं, स्वर्णप्राकारमण्डितम् । बबन्ध भर्तुरुल्लोचे, शक्रः श्रीदामगण्डकम् ॥५०७ ॥
१ इन्द्रेण । २ यथेच्छगामी। ३ नम्रात्मा। ४ स्निग्धम् ।
9282828282828282828282828282
शक्रकृता 'प्रभोः स्तुतिः ।
॥५७॥