________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ ५८ ॥
'REDEREREDEREREREREDERERERY
मणि-रत्नयुता हारा, अर्धहाराश्च हारिणः । हरिणा दधिरे तत्र, दृग्विनोदकृते प्रभोः ॥ ५०८ ॥ तत्राऽपस्वापन देव्या, विजयाया जहार सः । कुमुदिन्या इव शशी, पद्मिन्या इव चाऽर्यमा ॥ ५०९ ॥ शक्रादिष्टवैश्रवणनिदेशेन दिवौकसः । जृम्भका नाम तत्रेयुर्जितशत्रुनिकेतने ॥ ५१० ॥ हिरण्य-स्वर्ण-रत्नानां, कोटीर्द्वात्रिंशतं पृथक् । ववृषुस्ते द्वात्रिंशतं, नन्दभद्रासनानि च ॥ ५११ ॥ व्यधुर्भूषणवृष्टिं च, मण्यङ्गा इव शाखिनः । वस्त्रवृष्टिमथाऽनग्ना, इव कल्पमहीरुहाः ॥ ५१२ ॥ वनानि भद्रशालादीन्यवचित्येव सर्वतः । पत्रवृष्टिं पुष्पवृष्टिं, फलवृष्टिं च ते व्यधुः ॥ ५१३ ॥ विचित्रवर्णसुमनोमाल्यवृष्टिं महीयसीम् । वितेनिरे च चित्राङ्गनामकल्पद्रुमा इव ॥ ५१४ ॥ विदधुर्गन्धवृष्टिं च, चूर्णवृष्टिं च पावनीम् । उत्क्षिप्तैलादिकक्षोदा, इव दक्षिणमारुताः ॥ ५१५ ॥ अत्युदारां वसुधारावृष्टिं च परितेनिरे । वारिधारावृष्टिमिव, पुष्करावर्तवारिदाः ॥ ५१६ ॥ सौधर्मशासिनः पाकशासनस्याऽनुशासनात् । अथाऽऽभियोगिका देवा, इत्थामाघोषणां व्यधुः ॥ ५१७ ॥ आकर्णयन्तु सर्वेऽपि भो भो वैमानिकाः सुराः ! । भगवानधिपति - ज्योतिर्व्यन्तराश्चावधानतः ॥ ५९८ ॥ अर्हतोऽर्हज्जनन्याश्च योऽशुभं चिन्तयिष्यति । तन्मूर्धा सप्तधा गच्छत्वर्जकस्येव मञ्जरी ॥ ५१९ ॥ तदा च मेरुशिखरात्, सेन्द्राः सर्वे सुरा - ऽसुराः । द्वीपं कन्देलितानन्दा, नन्दीश्वरमुपाययुः ॥ ५२० ॥ भगवन्तं नमस्कृत्य, जितशत्रुनिकेतनात् । ययौ नन्दीश्वरद्वीपं सौधर्मेन्द्रोऽपि तत्क्षणात् ॥ ५२१ ॥ तत्राञ्जनाद्रौ पूर्वस्मिन् शाश्वतायतनेषु सः । शाश्वतार्हत्प्रतिमानां, चकाराऽष्टाह्निकोत्सवम् ॥ ५२२ ॥ १ मनोहराः । २ सूर्यः । ३ सिंहासनविशेषाः । ४ सावधानतया । ५ पल्लवितानन्दाः ।
CRCRCRC DEDEDEDEREREREREDERE
द्वितीयं पर्व
द्वितीय:
सर्गः अजित
सगर
चरितम् ।
सौधर्मेन्द्रेणा
जितप्रभोः
मातुः समीपे नयनम् ।
।। ५८ ।।