________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
अजितसगरचरितम् ।
28282828282828282828282828
सौधर्मेन्द्रस्य चत्वारो, लोकपालाश्चतुर्ध्वपि । अष्टाह्निकोत्सवं हृष्टाश्चक्रुर्दधिमुखाद्रिषु ॥५२३ ॥ उत्तरस्मिन्नञ्जनाद्रौ, शाश्वतायतनेषु तु । ईशानेन्द्रः शाश्वतार्हत्प्रतिमाष्टाह्निकां व्यधात् ॥५२४ ॥ लोकपालाश्च तस्यापि, प्राग्वद् दधिमुखाद्रिषु । ऋषभादिप्रतिमानां, व्यधुरष्टाह्निकोत्सवम् ॥५२५ ॥ अष्टाह्निकां चमरेन्द्रश्चक्रेऽपाच्येऽञ्जनाचले । चतुर्षु तद्दधिमुखाद्रिषु तस्य तु लोकपाः ॥५२६ ॥ बलीन्द्रोऽष्टाह्निकां चक्रे, पश्चिमे त्वञ्जनाचले । तल्लोकपालाः शैलेषु, चक्रुर्दधिमुखेषु तु ॥५२७॥ ततश्च सङ्केत्तस्थानादिव द्वीपवरात् ततः । कृतकृत्या निजनिजं, स्थानं जग्मुः सुराऽसुराः ॥५२८ ॥ इतश्च तस्यां यामिन्यामन्वर्हद् वैजयन्त्यपि । सुखेन सुषुवे सूनुं, गढ़ेव कनकाम्बुजम् ॥५२९॥ जाया-वध्वोस्तु विजया-वैजयन्त्योः परिच्छदः । पुत्रोत्पत्तिकिंवदन्त्या, जितशत्रुमवर्धयत् ॥५३० ॥ तया च वार्तया तुष्टो, राजाऽदात् पारितोषिकम् । तथा यथा तत्कुलेऽपि, श्रीरभूत् कामधेनुवत् ॥५३१॥ घनागमे सिन्धुरिव, सिन्धुराडिव पर्वणि । स्फारीबभूब वपुषा, तदानीं मेदिनीपतिः ॥५३२॥ उच्छ्वासं सह मेदिन्या, प्रसाद नभसा सह । आप्यायकत्वं मरुता, सह भेजे महीपतिः ॥५३३ ॥ राज्ञा मुमुचिरे तेन, काराबन्धाद् द्विषोऽपि हि । अवाशिष्यत बन्धस्तु, तदेभादिषु केवलम् ॥५३४ ॥ चैत्येषु जिनबिम्बानां, पूजाश्च विदधेऽद्भुताः । शाश्वतार्हत्प्रतिमानामिव शक्रो नरेश्वरः ॥५३५ ॥ अर्थिनश्च स्वक-परानपेक्षं सोऽधिनो धनैः । सर्वसाधारणी वष्टिारिदस्योद्यतस्य हि ॥५३६॥ उपाययुरुपाध्यायाः, पठन्तः सूतमातृकाम् । उल्ललद्भिः समं छात्रैर्वत्सैः कीलोज्झितैरिव ॥५३७॥
१ वृत्तान्तेन। २ तृप्तत्वम् । ३ अतर्पयत् । ४ कीलकबन्धान्मुक्तैः ।
282828282828282828282828282
जितशत्रुराजविहितोऽजितजिन-सगरचक्रिजन्मोत्सवः
॥५९ ॥