________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
॥४९॥
अजितसगरचरितम् ।
028282828282828282828282828
आभियोगिकदेवश्च, चमरेन्द्रस्य शासनात् । योजनार्धलक्षमानं, विमानं व्यकरोत् क्षणात् ॥ ३७८ ॥ पञ्चयोजनशत्यच्चमहेन्द्रध्वजमण्डितम् । पोतः सकूपक इव, तद् विमानमराजत ॥ ३७९ ॥ चतुःषष्टिसहौः स, समं सामानिकासुरैः । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ॥ ३८०॥ परिवारसमेताभिर्महिषीभिश्च पञ्चभिः । तिसृभिः परिषद्भिश्च, महानीकैश्च सप्तभिः ॥३८१॥ सप्तभिश्चानीकनाथैः, सामानिकचतुर्गुणैः । आत्मरक्षैस्तथाऽन्यैरप्यसुराणां कुमारकैः ॥३८२ ॥ तद् विमानं समारुह्य, क्षणानन्दीश्वरं ययौ । विमानं स्वे रतिकरे, सञ्चिक्षेप च शक्रवत् ॥३८३ ॥ प्रवाह इव जाह्नव्या, वेगात् पूर्वपयोनिधिम् । स ययौ स्वामिपादान्तं, मेरुपर्वतमूर्धनि ॥३८४ ॥ नगर्यां बलिचञ्चायामुत्तरश्रेणिमण्डने । बलिश्चाऽऽसनकम्पेनाऽर्हज्जन्माऽवधिनाऽबुधत् ॥३८५ ॥ तस्याऽऽदेशात् पत्त्यनीकपतिर्नाम्ना महाद्रुमः । द्राग् महौघस्वरां नाम, घण्टां त्रिः पर्यताडयत् ॥ ३८६ ॥ घण्टानादे च विश्रान्ते, प्राग्वदाघोषणामसौ । अकार्षीदसुरश्रोत्रसुधाश्रोतःसहोदराम् ॥ ३८७ ॥ तया घोषणयाऽभ्येयुः, सर्वतोऽप्यसुरा बलिम् । अम्बुदस्येव नादेन, मानसं मानसौकसः ॥३८८ ॥ पूर्वसङ्ख्यैर्महिष्याद्यैर्युक्तः सामानिकैः पुनः । षष्टिसहस्रेस्तेभ्यश्चाऽऽत्मरक्षैस्तु चतुर्गुणैः ॥ ३८९॥ प्राग्मानेन विमानेन, प्राग्वदिन्द्रध्वजेन च । गत्वा नन्दीश्वररतिकरं मेरुशिरस्यगात् ॥३९० ॥ धरणेन्द्रो हरिर्वेणुदेवश्चाऽग्निशिखस्तथा । वेलम्ब-सुघोष-जलकान्ताः पूर्णोऽमितोऽपि च ॥३९१ ॥ नाग-विद्युत्-सुपर्णा-ऽग्नि-वायु-मेघ-सरस्वताम्।द्वीपानांच दिशांचेन्द्रा, दक्षिणश्रेणिगा:क्रमात् ॥३९२॥
१ सेवकस्थानीयो देवः । २ असुरकर्णामृतप्रवाहसदृशाम्। ३ हंसाः। ४ पञ्चभिरित्यादिभिः ।
KYYYYYYYYYYYYYY
अजितजिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामागमनम्
॥४९॥