________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
॥५०॥
अजितसगरचरितम् ।
282828282828282828282828286
उदक्श्रेणेस्त्वमी भूतानन्दो हरिशिखस्तथा । वेणुदारी तथा चाऽग्निमाणवश्च प्रभञ्जनः ॥३९३ ॥ महाघोषो जलप्रभो, वशिष्ठोऽमितवाहनः । सर्वेऽप्यासनकम्पेनाऽर्हज्जन्माऽवधिनाऽबुधन् ॥३९४ ॥ ततश्च धरणादीनां, भद्रसेनैश्चमूधवैः । भूतानन्दादीनां दक्षाभिधैर्घण्टास्त्रिराहताः ॥३९५ ॥ तत्र मेघस्वरा क्रौञ्च-हंस-मञ्जुस्वरास्तथा । नन्दिस्वरा नन्दिघोषा, सुस्वरा मधुरस्वरा ॥३९६ ॥ मञ्जुघोषा चेति घण्टा, नेदुस्तेषां यथाक्रमम् । नागादिकानां भवनपतीनां पक्षयोर्द्वयोः ॥३९७ ॥ द्वयोरपि ततः श्रेण्योः, सर्वे नागादयः क्षणात् । स्वं स्वमिन्द्रं समाजग्मुः, स्वस्थानमिव वाजिनः ॥३९८॥ तेषामप्याज्ञया स्वे स्वे, त्रिदशा आभियोगिकाः । रत्न-स्वर्णविचित्राणि, विमानानि तदैव हि ॥३९९ ॥ योजनानां पञ्चविंशिसहस्रान् विस्तृतानि च । सार्धद्वियोजनशतेन्द्रध्वजानि विचक्रिरे ॥ ४०० ॥ प्रत्येकं महिषीभिस्ते, षड्भिः सामानिकैस्तथा । षट्सहस्रैश्च तेभ्यश्चाऽङ्गरक्षैस्तु चतुर्गुणैः ॥ ४०१॥ अन्यैश्चमर-बलिवत्, त्रायस्त्रिंशादिभिर्वृताः । विमानानि समारुह्य, मेरौ स्वाम्यन्तिके ययुः ॥ ४०२ ॥ पिशाचानां च भूतानां, यक्षाणां रक्षसामपि । किन्नर-किम्पुरुषा-ऽहि-गन्धर्वाणामधीश्चराः ॥४०३ ॥ कालः सुरूपोऽथ पूर्णभद्रो भीमश्च किन्नरः । सत्पुरुषश्चाऽतिकायो, नाम्ना गीतरतिस्तथा ॥ ४०४॥ दक्षिणश्रेणिगा एते, ह्युत्तरश्रेणिगास्त्वमी । महाकालो गीतयशा, द्वयेऽप्यासनकम्पतः ॥४०५ ॥ महाभीमः किम्पुरुषो, महापुरुष एव च । महाकायो गीतयशा, द्वयेऽप्यासनकम्पतः ॥ ४०६ ॥ ज्ञात्वाऽर्हज्जन्म ते स्वैः स्वैः,सैन्यनाथैर्निजां निजाम्।मञ्जुस्वरांम घोषां, घण्टामास्फालयन् क्रमात् ॥४०७॥
॥पञ्चभिः कुलकम्॥
28282828282828282828282828
अजितजिनजन्मोत्सवार्थ चतुःषष्टेरिन्द्राणामागमनम्।
॥५०॥