________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः
॥४८॥
अजितसगरचरितम् ।
8282828282828282828282828288
विमानं पुष्पकं नामाऽध्यारुह्य सपरिच्छदः । दक्षिणेनैशानकल्पस्याऽध्वना निरगाद् द्रुतम् ॥३६४॥
॥त्रिभिविशेषकम्॥ असङ्ख्यातान् समुल्लङ्घय, द्वीपाऽम्भोधीन् क्षणादपि । नन्दीश्वरमहाद्वीपं, प्रापैशानसुरेश्वरः ॥ २६५ ॥ तत्र चोत्तरपूर्वस्मिन्, शैले रतिकरे निजम् । सञ्चिक्षेप विमानादि, हेमन्त इव वासरम् ॥३६६ ॥ क्रमेण सङ्क्षिपस्तत् तदकालक्षेपतो ययौ । सुमेरावन्तवासीव, पादान्तं जगदीशितुः ॥ ३६७ ॥ सनत्कुमारो ब्रह्मा च, शुक्रश्च प्राणतः सुरैः । घण्टां सुघोषामास्फाल्य, बोधितै गमेषिणा ॥३६८ ॥ शक्रवद् वर्त्मनोदीचा, नन्दीश्वरमुपेत्य च । अपाक्पूर्वे रतिकरे, विमानादि समक्षिपन् ॥३६९ ॥ ययुश्च मेरुशिरसि, शक्रोत्सले निषेदुषः । सन्निधाने भगवतो, नक्षत्राणि विधोरिव ॥३७०॥ महेन्द्रो लान्तकश्चापि, सहस्रारोऽच्युतोऽपि च । महाघोषाऽलघुपराक्रमाभ्यां बोधितामराः ॥३७१॥ ईशानवद् दक्षिणेन, पथा नन्दीश्वरं ययुः । उदक्पूर्वे रतिकरे, विमानादि समक्षिपन् ॥३७२॥॥युग्मम् ॥ अधिस्वामि ततो जग्मुः, काञ्चनाचलमूर्धनि । पथिका इव सानन्दं, वनेऽधिफलपादपम् ॥३७३ ॥ पूर्यां चमरचञ्चायां, दक्षिणश्रेणिभूषणे । सुधर्मायां चकम्पे च, चमरस्याऽऽसनं तदा ॥ ३७४ ॥ सोऽपि ज्ञात्वाऽवधिज्ञानात्, तीर्थकृज्जन्म पावनम् । गत्वा पदानि सप्ताष्टान्याननाम जिनेश्वरम् ॥३७५ ॥ आज्ञया तस्य सद्योऽपि, पत्त्यनीकपतिर्दुमः । घण्टामोघस्वरां नामाऽऽस्फालयामास सुस्वराम् ॥३७६ ॥ शान्ते चौघस्वराघोषे, तेन चाऽऽघोषणे कृते । असुराश्चमरं भेजुः, सायं द्रुमिव पक्षिणः ॥ ३७७ ॥ १ कालक्षेपं विना। २ शिष्य इव। ३ अधिकानि फलानि यौतादृशं पादपं प्रति ।
8282828282828282828282828284
अजितजिन जन्मोत्सवार्थं चतुःषष्टेरिन्द्राणामागमनम्।
॥४८॥