________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम् ।
॥३८॥
1282828282828282828282828286
रत्नाकरो रत्नशैलो, रत्नगर्भा मुधा ह्यमी । त्वमेका रत्नभूः पुत्ररत्नं यत् सूतवत्यदः ॥ २२० ॥ वयं हि रुचकद्वीपमध्यस्था दिक्कुमारिकाः । अर्हतो जन्मकृत्यानि, कर्तुमत्र समागताः ॥ २२१ ॥ भवत्या तन्न भेतव्यमित्युक्त्वा परमेशितुः । चतुरङ्गलवर्जं ता, नाभिनालमकल्पयन् ॥ २२२ ॥ खनित्वा विदरं तत्र, नालं निधिमिव न्यधुः । विदरं पूरयामासू, रत्नैर्वत्रैश्च तं ततः ॥ २२३ ॥ बबन्धुस्तत्र पीठं ताः, सद्यः प्रोद्भूतदूर्वया । अप्युद्यानान्युद्भवन्ति, देवतानां प्रभावतः ॥ २२४ ॥ सूतिकावेश्मनस्तस्य, ककुंप्सु तिसृषु क्षणात् । विकुर्वन्ति स्म कदलीगृहाणि श्रीगृहाणि ताः ॥ २२५ ॥ प्रत्येकमेकं तन्मध्ये, चतुःशालं विचक्रिरे । मध्ये च तेषामेकैकं, रत्नसिंहासनं महत् ॥ २२६ ॥ ततश्च जगृहुस्तीर्थकरं करतलेन ताः । स्वामिनी च भुजे निन्युश्चाऽपाच्यकदलीगृहे ॥ २२७ ॥ तत्र चाऽन्तश्चतुःशालं, रत्नसिंहासनोत्तमे । ताः सुखं स्वामिनं स्वामिमातरं च न्यवेशयन् ॥ २२८ ॥ स्वयं संवाहिकीभूय, पाणिन्यासैर्यथासुखैः । शतपाकादिभिस्तैलैरभ्यङ्गं च तयोर्व्यधुः ॥ २२९ ॥ गन्धद्रव्यैः सुरभिभिः, सूक्ष्मपिष्टैः क्षणेन ताः । उद्वर्त्तनं विदधिरे, रत्नदर्पणवत् तयोः ॥२३०॥ जिनेन्द्रं करतलेन, जिनेन्द्रजननीं भुजे । गृहीत्वा निन्यिरे ताश्च, पौरस्त्ये कदलीगृहे ॥ २३१॥ तत्र मध्ये चतुःशालं, रत्नसिंहासनोत्तमे । आसयामासुरथ ता, जिनेन्द्र-जिनमातरौ ॥ २३२ ॥ ताश्च गन्धोदकैः पुष्पोदकैः शुद्धोदकैरपि । द्वावपि स्नपयामासुस्तदिवाऽऽजन्मशिक्षिताः ॥२३३ ॥
१ गतम् । २ दिक्षु । ३ दक्षिणकदलीगृहे। ४ दासीभूय । ५ पूर्वदिक्सम्बन्धिनि । ६ जन्मत आरभ्य शिक्षिता इव ।
1288888888888888888888888886
दिक्कुमारिकाकृतो जिनजन्मोत्सवः।
॥३८॥