SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ त्रिषष्टि शलाकापुरुषचरिते द्वितीयं पर्व द्वितीयः सर्गः अजितसगरचरितम्। ॥३७॥ 282828282828282828282828282 जिनेन्द्र-जिनजनन्योर्दक्षिणेन कलस्वनाः । ता मङ्गलानि गायन्त्यस्तस्थुर्भृङ्गारपाणयः ॥ २०५ ॥ तथा प्रत्यग्रुचकादिवास्तव्या दिक्कुमारिकाः । पूर्ववज्ज्ञापयित्वा स्वं, तावन्मात्रपरिच्छदाः ॥ २०६॥ इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीता च नामतः ॥ २०७॥ कृत्वा प्रदक्षिणापूर्वं, नतिं जिन-जिनाम्बयोः । गायन्त्यः पश्चिमेनाऽस्थुश्चारुव्यजनपाणयः ॥ २०८॥ तथोदग्रुचकशैलवास्तव्या दिक्कुमारिकाः । निवेद्य प्राग्वदात्मानं, तथैव सपरिच्छदाः ॥२०९॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, हीः श्रीरिति च नामतः ॥२१०॥ नत्वा प्रदक्षिणापूर्वं, पादान् जिन-जिनाम्बयोः । गायन्त्य उत्तरेणाऽस्थुश्चारुचामरपाणयः ॥ २११ ॥ विदिग्रुचकवास्तव्याश्चतस्रो दिक्कुमारिकाः। चित्रा चित्रकनका सतेरा सौत्रामणी तथा ॥ २१२ ॥ एत्य प्रदक्षिणापूर्वं, नमस्कारं विधाय च । जिनस्य जिनमातुश्च, स्वमायातं न्यवेदयन् ॥ २१३ ॥ स्वामिनःस्वामिमातुश्च, गायन्त्यो विपुलान् गुणान् । दीपिकापाणयस्तस्थुरैशान्यादिविदिक्षु ताः॥२१४॥ रुचक्द्वीपमध्यस्थाश्चतस्रो दिक्कुमारिकाः । रूपा रूपांशिका चैव, सुरूपा रूपकावती ॥ २१५ ॥ प्रत्येकं पूर्ववत् सर्वपरिवारविराजिताः । महाविमानान्यारुह्याऽर्हज्जन्मगृहमाययुः ॥ २१६ ॥ तत् त्रिः प्रदक्षिणीचक्रुर्विमानेष्वेव ताः स्थिताः । अस्थापयन् विमानानि, देशे समुचिते ततः ॥ २१७ ॥ ततश्चरणचारिण्यो, जिनेन्द्र-जिनमातरौ । भक्त्या प्रदक्षिणीकृत्य, नत्वा चैवं बभाषिरे ॥ २१८ ॥ जय जीव चिरं नन्द, विश्वानन्दननन्दने! । सुमुहूर्तं जगन्मातरद्य त्वद्दर्शनेन नः ॥२१९ ॥ १ मधुरस्वराः । २ नमस्कारम् । 28282828RURER8282828RURURUA दिक्कुमारिकाकृतो जिनजन्मोत्सवः। ॥३७॥
SR No.009655
Book TitleTrishashti Shakala Purush Charitam Part 2
Original Sutra AuthorHemchandracharya
Author
PublisherJinshasan Aradhana Trust
Publication Year
Total Pages384
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy