________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व द्वितीयः
सर्गः अजितसगरचरितम्।
282828282828282828282828286
विचित्ररत्नालङ्कारांस्तास्ताभ्यां पर्यधापयन् । चिरात् स्वशक्तेस्तादृश्या, मन्यमानाः कृतार्थताम् ॥ २३४ ॥ | जिनेन्द्र-विजयादेव्यौ, देव्योऽथाऽऽदाय पूर्ववत् । मनोहारिणि ता जग्मुरुदीच्ये कदलीगृहे ॥ २३५ ॥ तत्राऽऽसयंश्चतुःशालमध्यसिंहासने च ताः । तौ गृह्णन्तौ नगासीनसिंहीतत्सुतयोः श्रियम् ॥ २३६ ॥ क्षणादानाययामासुस्त्रिदशैराभियोगिकैः । गोशीर्षचन्दनैधांसि, ताः क्षुद्रहिमवगिरेः॥२३७॥ पावकं पातयामासुर्मथित्वाऽरणिदारुणी । जायते घुष्यमाणाद्धि, दहनश्चन्दनादपि ॥ २३८ ॥ समिधीकृत्य गोशीर्षचन्दनानि समन्ततः । एधयामासुरग्निं तं, देव्यस्ता आहिताग्निवत् ॥ २३९ ॥ ततस्तेनाऽग्निहोमेन, भूतिकर्म विधाय ताः । रक्षाग्रन्थि जिनेन्द्रस्य, बबन्धुर्भक्तिबन्धुराः ॥२४०॥ पर्वतायुर्भवेत्युच्चैर्वदन्त्यो जिनकर्णयोः । मिथ आस्फालयामासू, रत्नपाषाणगोलकौ ॥ २४१॥ तीर्थङ्करं करतलेनाऽऽदाय विजयां भुजे । ताः सूतिकागृहे निन्युः, शय्यायां चाऽध्यरोपयन् ॥ २४२ ॥ ततश्च स्वामिनः स्वामिजनन्याश्चोज्ज्वलान् गुणान् । गायन्त्यो मञ्जु तास्तस्थुरनत्यासन्नदूरतः ॥ २४३ ॥ तदानीमेव सौधर्मे, कल्पेऽल्पेतरवैभवः । आवृतो देवकोटीभिरप्सरोभिश्च कोटिशः ॥२४४॥ कोटिशश्चारणवरैः, स्तूयमानपराक्रमः । गन्धर्ववर्गेणाऽखर्वं, गीयमानगुणोच्चयः ॥२४५ ॥ पार्श्वतो वारनारीभिर्वीज्यमानश्च चामरैः । मूर्ध्नि श्वेतातपत्रेण, राजमानोऽतिहारिणा ॥ २४६ ॥ दत्तास्थानः सुधर्मायामास्थान्यां प्राङ्मुखः सुखम् ।शक्रो यावन्निषण्णोऽस्थाच्चकम्पे तावदासनम् ॥२४७॥
॥चतुर्भिः कलापकम्॥ १पर्वतोपविष्टसिंहीतत्पुत्रयोः। २ अग्निः । ३ प्रभूतवैभवः । ४ सभायाम्।
188888888888888888888888888
दिक्कुमारिकाकृतो जिनजन्मोत्सवः।
॥३९॥