________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥२१॥
KURUKURUKURUKURUKURUKURUSURES
विषेहे हन्यमानोऽपि, न तु प्रतिजघान सः। जीवानाशात् क्रुधो दौष्ट्यात्, क्षमया च गुणार्जनात् ॥२८८॥ नाऽयाचितं यतीनां यत्, परदत्तोपजीविनाम् । याञ्चादुःखं न चक्रे तन्नेयेष गृहितां च सः ॥ २८९ ॥ परात् परार्थं स्वार्थं वा, स लेभेऽन्नादिकंन वा । लाभेऽमाद्यन्न नाऽलाभेऽनिन्दत् स्वमथवा परम् ॥२९०॥ स रोगेभ्यो नोद्विविजे, न चकाङ्क चिकित्सितम् । शरीरादात्मभेदज्ञोऽसहताऽदीनमानसः ॥२९१॥ अभूताल्पाणुचेलत्वे, संस्तृतेषु तृणादिषु । सेहे तत्स्पर्शजं दुःखमियेष न च तान् मृदून् ॥ २९२ ॥ ग्रीष्मातपपरिक्लिन्नात्, सर्वाङ्गीणमलादपि । न स उद्विविजे स्नातुं, नैच्छन्नाऽप्युदवर्त्तयत् ॥ २९३ ॥ अभ्युत्थानेऽर्चने दाने, न सोऽभूदभिलाषुकः । न व्यषीददसत्कारे, सत्कारेऽपि जहर्ष न ॥ २९४ ॥ प्रज्ञा प्रज्ञावतां पश्यन्नात्मन्यप्रज्ञतां विदन् । न व्यषीदन्न चाऽमाद्यत्, प्रज्ञोत्कर्षमुपागतः ॥ २९५ ॥ ज्ञान-चारित्रयुक्तोऽस्मि, च्छद्मस्थोऽहं तथाऽपि हि । इत्यज्ञानं विषेहे स, ज्ञानस्य क्रमलाभवित् ॥२९६ ॥ जिनास्तदुक्तं जीवो वा, धर्माधर्मी भवान्तरम् । परोक्षत्वान्मृषा नैव, स मेने शुद्धदर्शनः ॥ २९७ ॥ शारीरान् मानसानेवं, स्वपरप्रेरितान् मुनिः । परीषहान् विषेहे स, वाक्कायमनसां वशी ॥ २९८ ॥ ध्यानैकतानः सततं, स्वामिनां श्रीमदर्हताम् । चक्रे चैत्यायमानं स, चेतः स्थिरतरं निजम् ।। २९९ ॥ सिद्धेषु गुरुषु बहुश्रुतेषु स्थविरेषु च । तपस्विषु श्रुतज्ञाने, सङ्घ चाऽभूत् स भक्तिमान् ॥ ३०० ॥ एवं च तीर्थकृत्कर्मोपार्जनान्यपराण्यपि । स्थानकानि सिषेवेऽसौ, दुर्लभान्यमहात्मनाम् ॥३०१॥ तप एकावलि रत्नावलिं च कनकावलिम् । सिंहनि:क्रीडितं ज्येष्ठं, कनिष्ठं च चकार सः ॥३०२॥ मासोपवासादारभ्य, स कर्तुं कर्मनिर्जराम् । अष्टमासोपवासान्तमुपवासतपो व्यधात् ॥ ३०३ ॥
82828282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
॥२१॥