________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥२२॥
282828282828282828282828282
एवं तीव्र तपस्तप्त्वा, कृत्वा संलेखनाद्वयम् । चकाराऽनशनं प्रान्ते, समतैकपरायणः ॥३०४॥ स्मरन् पञ्चपरमेष्ठिनमस्कारं समाहितः । स देहत्यागमकरोन्निलयत्यागलीलया ॥३०५ ॥ अनुत्तरविमानेष, विमाने विजयाभिधे । त्रयस्त्रिंशत्सागरायुः, सोऽमरः समजायत ॥३०६॥ हस्तमात्रतनुस्तत्र, निशाकरकरोज्ज्वलः । अहमिन्द्रोऽनहङ्कारश्चारुभूषणभूषितः ॥ ३०७ ॥ सर्वदा निःप्रतीकारः, सुखशय्यामधिष्ठितः । स्थानान्तरमगामी चाऽनिर्मितोत्तरवैक्रियः ॥३०८ ॥ आलोकयलोकनालिमवधिज्ञानसम्पदा । निर्वाणसुखदेशीयं, सोऽन्वभूत् सुखमुत्तमम् ॥ ३०९ ॥
॥त्रिभिर्विशेषकम्॥ आयुःसागरसङ्घयैः स, पक्षैनिःश्वसितं व्यधात् । समासहस्रेस्तावद्भिविदधे भक्ष्यकामनाम् ॥ ३१० ॥ आयुःशेषे मासषट्के, न मोहोऽपरदेववत् । प्रत्युतासन्नपुण्यत्वात्, तस्य तेजो व्यवर्धत ॥ ३११ ॥
स एवमद्वैतसुखप्रपञ्चे, सुधाहूदे हंस इवाऽवगाढः ।
आयुस्त्रयस्त्रिंशतमम्बुराशीनेकाहवन्निर्गमयाम्बभूव ॥ ३१२ ॥ इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये द्वितीये पर्वणि
श्रीअजितस्वामीपूर्वभववर्णनो नाम प्रथमः सर्गः।
282828282828282828282828282
पूर्वभवचरिते | प्रथमो विमल
वाहनभवः ।
॥२२॥
१ मोक्षसुखादीषन्यूनम् । २ त्रयस्त्रिंशता पक्षैः। ३त्रयस्त्रिंशद्वर्षसहस्त्रैः। ४ भोजनेच्छाम्। ५ एकदिनवत् ।