________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥२०॥
8282828282828282828282828288
शयनासननिक्षेपादानचङ्क्रमणादिषु । स्थाने च चेष्टानियम, स चकार महामनाः ।। २७४ ॥ इत्थं चारित्रगात्रस्य, जननत्राणशोधनैः । मातृभूताः स समितिगुप्तीरष्टाऽप्यधारयत् ॥ २७५ ॥ क्षुधातः शक्तिसम्पन्न, एषणामविलङ्घयन् । सोऽदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतोऽचरत् ॥ २७६ ॥ पिपासितः पथिस्थोऽपि, तत्त्वविद् दैन्यवर्जितः । नैच्छच्छीतोदकं किन्तु, जग्राह प्रासुकोदकम् ॥२७७ ॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः ।वासोऽकल्प्यं नाऽऽददे सोऽज्वालयज्ज्वलनं न च ॥२७८॥ उष्णेन तप्ो नाऽनिन्ददुष्णं छायां च नाऽस्मरत् । वीजनं मज्जनं गात्राभिषेकादि च नाऽकरन् ।। २७९ ॥ दष्टोऽपि दंशैर्मशकैः, सर्वेषां भोज्यलौल्यवित् । त्रासं द्वेषं निरासं स, न चक्रेऽस्थादुपेक्षया ॥ २८० ॥ नाऽस्ति वासोऽशुभं चैतन्नेयेषोभयथाऽपि तत् ।स नाग्न्यबाधितो जानन्, लाभालाभविचित्रताम् ॥२८१॥ न कदाप्यरतिं चक्रे, धर्मारामरतिर्यतिः । गच्छंस्तिष्ठन्नथाऽऽसीनः, स्वास्थ्यमेव स शिश्रिये ॥ २८२ ॥ दुर्धावसङ्गपाश्च, मोक्षद्वारार्गलाः स्त्रियः । नाऽचिन्तयदसौ ता हि, धर्मनाशाय चिन्तिताः ॥ २८३ ॥ ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि चक्रे स, विविधाभिग्रहैर्युतः ॥ २८४ ॥ आसनादौ निषद्यायां, स्त्र्यादिकण्टकवजिते । इष्टानिष्टानुपसर्गान्, स सेहे निःस्पृहोऽभयः ॥ २८५ ॥ शुभाशुभायां शय्यायां, स विषेहे सुखासुखे । रागद्वेषावकुर्वाणः, प्रातस्त्याज्येति चिन्तयन् ॥ २८६ ॥ आक्रुष्टोऽपि स नाऽक्रोशत्, क्षमाश्रमणतां विदन् । किन्तु प्रत्युत मेनेऽसावाक्रोष्टर्युपकारिताम् ॥२८७ ॥ १ पञ्च समितयः तिस्रो गुप्तयः मिलित्वा अष्टौ भवन्ति । २ अग्निम्। ३ स्नानम् । ४ दुःक्षालसंसर्गकर्दमः ।
828282828282828282828282828A
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥२०॥