________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः
सर्गः
अजितसगर
॥१९॥
चरितम् ।
XXXXXXXXXXXXXXXXXXXXXXX
दारियं प्राणिनां तावन्न यावत् कल्पपादपः । भविनां भवभिस्तावद्, यावन्नैवा ऽऽ प्यते व्रतम् ॥ २५९ ॥ आरोग्यं रूपलावण्ये, दीर्घायुष्यं महर्द्धिता । आज्ञैश्वर्यं प्रतापित्वं, साम्राज्यं चक्रवर्तिता ॥ २६० ॥ सुरत्वं सामानिकत्वमिन्द्रत्वमहमिन्द्रता । सिद्धत्वं तीर्थनाथत्वं, सर्वं व्रतफलं ह्यदः ॥ २६१ ॥ एकाहमपि निर्मोहः, प्रव्रज्यापरिपालकः । न चेन्मोक्षमवाप्नोति, तथापि स्वर्गभाग् भवेत् ॥ २६२॥ किं पुनः स महाभागस्त्यक्त्वा तृणमिव श्रियम् । यो गृह्णाति परिव्रज्यां, सुचिरं पालयत्यपि ॥ २६३ ॥ विधाय देशनामेवमरिन्दममहामुनिः । विहर्तुमन्यतोऽचालीत्, तिष्ठन्त्येकत्र नर्षयः ॥२६४ ॥ ततो ग्राम-पुरारण्याकर-द्रोणमुखादिषु । स व्यहार्षीदविच्छिन्नं, छायेव गुरुणा सह ॥ २६५ ॥ लोकाक्रान्तेऽर्कभास्पृष्टे, जन्तुरक्षाकृते पथि । युगमात्रदत्तदृष्टिः, सोऽगादीर्याविचक्षणः ॥२६६ ॥ निरवद्यां मितां सर्वजनीनां भारती च सः । महामुनिरभाषिष्ट, भाषासमितिकोविदः ॥२६७॥ द्विचत्वारिंशता भिक्षादोषैरपरिदूषितम् । पारणेष्वाददे पिण्डमेषणानिपुणो हि सः ॥ २६८ ॥ आसनादीनि संवीक्ष्य, यत्नतः प्रतिलिख्य च । अग्रहीन्यक्षिपच्चाऽपि, स आदानविशारदः ॥ २६९ ॥ कफ-मूत्र-मलप्रायं, निर्जन्तुजगतीतले । उत्ससर्ज महासाधुः, स प्राणिकरुणापरः ॥ २७० ॥ विमुक्तकल्पनाजालं, समत्वे सुप्रतिष्ठितम् । स गुणक्ष्मारुहाराम, आत्मारामं मनो व्यधात् ॥ २७१॥ मौनेन तस्थौ स प्रायः, संज्ञादिपरिहारतः । अनुग्राह्योपरोधेन, यद्यवोचत् तदा मितम् ॥ २७२ ॥ स्तम्भबुद्धया महिषाद्यैः, स्कन्धकण्डूयनेच्छुभिः । बाढमुघृष्यमाणोऽपि, कायोत्सर्ग जहौ न सः ॥२७३ ॥ १ सूर्यकिरणैः स्पृष्टे। २ सर्वजनहिताम्। ३ आदाननिक्षेपणासमितिविशारदः। ४ गुणवृक्षोद्यानः ।
128282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥१९॥