________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः
सर्गः
अजितसगरचरितम् ।
॥१८॥
888888888888888888888888888
अदृष्टपूर्ववद् दूरात्, पौरैरुत्फुल्ललोचनैः । आलोक्यमानो निस्पन्दैरालेख्यलिखितैरिव ॥ २४५ ॥ लोकैर्मन्त्रबलाकृष्टैरिव कार्मणितैरिव । वाग्बद्धैरिव परितोऽन्वीयमानो भृशायितैः ॥२४६ ॥ उद्यानेऽरिन्दमाचार्यपादपद्मपवित्रिते । जगाम धाम पुण्यानां, राजा विमलवाहनः ॥२४७॥
॥दशभिः कुलकम् ॥ शिबिकातः समुत्तीर्य, पादाभ्यां मेदिनीपतिः । तत्र प्राविशदुद्याने, मनसीव तपस्विनाम् ॥२४८ ॥ अथाऽऽभरणसम्भारं, विश्वं विश्वम्भरापतिः । अङ्गादुत्तारयामास, धराभारं भुजादिव ॥ २४९ ॥ कन्दर्पशासनमिव, चिराय शिरसा धृतम् । उज्झाञ्चकार स्रग्दाम, सद्यो वसुमतीपतिः ॥ २५० ॥ आचार्यवामपार्श्वस्थः, स कृत्वा चैत्यवन्दनाम् । तद्दत्तमादत्त रजोहरणादि ऋषिध्वजम् ॥२५१ ॥ केशानुत्पाटयामास, मुष्टिभिः पञ्चभिर्नृपः । सावधं सकलं योगं, प्रत्याख्यामीत्युदीरयन् ॥ २५२ ॥ तत्कालमप्युपात्तेन, व्रतिलिङ्गेन तेन तु । आबाल्यव्रतधारीव, शुशुभे स महामनाः ॥ २५३ ॥ प्रदक्षिणात्रयीपूर्वं, विधाय गुरुवन्दनाम् । स्थिते तस्मिन् गुरुरेवं, विदधे धर्मदेशनाम् ॥ २५४ ॥ अस्मिन्नपारे संसारे, कथञ्चिज्जन्म मानुषम् । अवाप्यते पयोराशी, दक्षिणावर्तशङ्खवत् ॥ २५५ ॥ मानुष्यकेऽपि सम्प्राप्ते, बोधिबीजं सुदुर्लभम् । तत्रापि पुण्ययोगेन, परिव्रज्योपलभ्यते ॥ २५६ ॥ तावद् भुवोऽर्कसन्तापो, न यावत् प्रावृडम्बुदः । भङ्गो वनस्य हस्तिभ्यस्तावद् यावन्न केसरी ॥२५७ ॥ तमोभिरान्ध्यं जगतस्तावद् यावन्न भास्करः । देहिनां पन्नगभयं, तावद् यावन्न पक्षिराट् ॥ २५८ ॥
१ अतिशयेन सम्मिलितैः।
282828282828282828282828282
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥१८॥