________________
द्वितीयं पर्व प्रथमः
त्रिषष्टिशलाकापुरुषचरिते
सर्गः
अजितसगरचरितम्।
॥१७॥
282828282828282828282828282
मकराननसौवर्णभृङ्गारलुठदम्बुभिः । जीमूतधाराभिरिव, स सस्नौ भूभृतां वरः ॥२३० ॥ कोमलेन दुकूलेनोन्मृष्टाङ्गो नृपतिस्ततः । सर्वाङ्गमपि गोशीर्षचन्दनेन व्यलिप्यत ॥ २३१ ॥ नीलोत्पलदलश्यामः, शशिगर्भ इवाऽम्बुदः । पुष्पगर्भः केशपाशो, राज्ञस्तज्ज्ञैररच्यत ॥ २३२ ॥ विशाले निर्मले स्वच्छे, मनोहरगुणे स्ववत् । संविव्यायाऽथ भूनाथो, मङ्गल्ये दिव्यवाससी ॥२३३ ॥ ततः पुत्रोपनीतं स, नरेन्द्रमुकुटायितः । माणिक्यस्वर्णमुकुटं, धारयामास मूर्धनि ॥२३४ ॥ हार-केयूर-ताडङ्कप्रभृतीन्यपराण्यपि । स सर्वाङ्गं भूषणानि, पर्यधाद् गुणभूषणः ॥२३५ ॥ रत्नकाञ्चनरूप्याणि, वस्त्राण्यन्यदपीप्सितम् । अर्थिभ्यः स ददौ तत्र, कल्पद्रुम इवाऽपरः ॥ २३६ ॥ ततो नरशतोद्वाह्यां, शिबिकां नरकुञ्जरः । आरोहत् पुष्पकमिव, विमानं नरवाहनः ॥२३७ ॥ राजन् श्वेतातपत्रेण, चामराभ्यां च तत्क्षणात् । साक्षाद् रत्नत्रयेणेवाऽभ्यागतेन निषेवितः ॥ २३८ ॥ बन्दिकोलाहलेनोच्चैस्तारतूर्यरवेण च । सुहृद्भ्यामिव मिलद्भ्यां, मुदमुद्बोधयन् नृणाम् ॥ २३९ ॥ श्रीमद्भिर्नृपसामन्तैः, पृष्ठतः पार्श्वतोऽग्रतः । आपतद्भिः शोभमानो, ग्रहराजो ग्रहैरिव ॥ २४० ॥ आवृत्तवृन्तपद्माभवलद्ग्रीवेण सूनुना । आदेशकाङ्क्षिणा द्वा:स्थेनेवाऽग्रस्थेन शोभितः ।। २४१ ॥ सम्पूर्णपात्रकुम्भाभिर्नागरीभिः पदे पदे । मङ्गलानि क्रियमाणानीक्षमाणो यथाक्रमम् ॥२४२॥ चित्रमञ्चशताकीर्ण, पताकामालभारिणम् । पवित्रयन् राजमार्ग, यक्षकर्दमपङ्किलम् ॥२४३ ॥ मञ्चे मञ्चे च गन्धर्ववर्गसङ्गीतपूर्वकम् । प्रतीच्छन् पण्यवनिताकृतारात्रिकमङ्गलम् ॥ २४४॥ १ मेघः । २ केशपाशविधिज्ञै। ३ आत्मवत् । ४ शोभमानः । ५ सूर्यः। ६ सुगन्धिद्रव्यविशेषः । ७ गृह्णन् ।
282828282828282828282828284
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
॥१७॥