________________
त्रिषष्टिशलाका
पुरुषचरिते
॥ १६ ॥
FREREREREREREREREREREREREREI
दाक्षिण्यं रक्षणभवं, नैतस्या जातु जायते । किन्तु क्षणात् प्लवङ्गीवोत्प्लुत्य यात्याश्रयान्तरम् ॥ २१६ ॥ निर्लज्जता चपलता, निःस्नेहत्वमथाऽपरे । दोषाः प्रकृतिरेवाऽस्या, नीचैर्यानमिवाऽम्भसः ॥ २१७ ॥ निःशेषदोषमय्याऽपि, सर्वः कोऽपि श्रियैधते । शक्रोऽपि हि श्रिया शक्तः, किं पुनर्मानवो जनः ? ॥ २९८ ॥ तस्याः प्राहरिक इव, स्थिरीकरणकर्मणि । नय- विक्रमसम्पन्नो, जागरूकः सदा भवेः ॥ २१९ ॥ श्रीकाङ्क्षीणाऽपि भवता, भूः पाल्येयमगृध्नुना । अगृध्नोरनुगा लक्ष्म्यः, सुभगस्येव योषितः ॥ २२० ॥ अतिचण्डत्वमालम्ब्य, निदाघस्थ इवाऽर्यमा । त्वं दुःसहकराक्रान्तां, पृथिवीं जातु मा कृथाः ॥ २२९ ॥ एकदाऽपि कृतान्यायं, जनं निजमपि त्यजेः । त्यज्यते वरवासोऽपि, मनागप्यग्निदूषितम् ॥ २२२ ॥ मृगया - द्यूत - पानानि वारयेः सर्वतोऽपि यत् । तत्पापानां नृपो भागी, तपस्वितपसामिव ॥ २२३ ॥ अन्तरङ्गान् जये: शत्रूंस्तेषामविजये सति । जिता अप्यजिता एव, शत्रवो यद् बहिर्भवाः ॥ २२४ ॥ धर्ममर्थं च कामं च, परस्परमबाधया । यथाकालं निषेवेथाः, पत्नीनेतेव दक्षिणः ॥ २२५ ॥ तथा भजेस्त्रीन् पुमर्थान्, यथा हि समये सति । पुरुषार्थे चतुर्थेऽपि, नोत्साहो हीयते तव ॥ २२६ ॥ अभिधायेति तूष्णीकीभूते विमलवाहने । बद्धाञ्जलिः कुमारस्तत्, तथेति प्रत्यपद्यत ॥ २२७ ॥ सिंहासनादथोत्थाय, विनीतः प्राग्वदेव सः । उत्तिष्ठासोव्रतकृते, हस्तालम्बं ददौ पितुः ॥ २२८ ॥ दत्तहस्तः स पुत्रेण, वेत्रितोऽप्यल्पमानिना । जगाम स्नपनागारं भूरिभृङ्गारभूषितम् ॥ २२९ ॥
१ वानरीव । २ अधोगमनम् । ३ यामिकः । ४ अनुसारिण्यः । ५ श्रेष्ठवस्त्रम् । ६ सुरापानम् । ७ नायक इव । ८ विनयवान् । ९ उत्थातुमिच्छो: । १० बहुकलशभूषितम् ।
KAKAKAKAEREDEREREREDERERE DER
द्वितीयं पर्व
प्रथमः
सर्गः अजित
सगर
चरितम् ।
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥ १६ ॥