________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥१५॥
88888888888888888888888888
उत्पत्योत्पत्य राजानोऽभ्यषिञ्चन्नपरेऽपि तम् । नवोदयमिवाऽऽदित्यं, नमश्चक्रुश्च भक्तितः ॥२०१॥ नृपादेशेन संदशान्यंशुकानि स पर्यधात् । तैश्चाऽदभैः शारदाभ्रः, शुभैर्गिरिरिवाऽऽबभौ ॥२०२॥ गोशीर्षचन्दनस्तस्याऽङ्गरागं वारयोषितः । सर्वाङ्गीणं विदधिरे, ज्योत्स्नापूरैरिवाऽमलैः ॥२०३ ॥ मुक्तामयानि सर्वाङ्ग, भूषणानि स पर्यधात् । निर्मितानि दिवः कृष्ट्वा , प्रोतैरुडुगणैरिव ॥ २०४ ॥ ज्वलन्माणिक्यतेजस्कं, किरीटं तस्य मूर्धनि । स्वयं न्यवेशयद् राजा, स्वं प्रतापमिवोर्जितम् ॥ २०५ ॥ तस्य मूर्ध्नि धराधीशो, धारयामास निर्मलम् । सितच्छत्रं यश इव, प्रादुर्भूतं क्षणादपि ॥२०६॥ पार्श्वतो वारनारीभिरवीज्यत स चामरैः । राज्यसम्पल्लतोद्भूतप्रसूनस्तबकैरिव ॥ २०७॥ चन्दनेन स्वयं भूपस्तद्भाले तिलकं व्यधात् । उदयाचलचूलास्थनिशाकरविडम्बिनम् ॥ २०८ ॥ राजा राज्ये निवेश्यैवं, कुमारं परया मुदा । लक्ष्म्या रक्षामन्त्रमिव, सम्यक् शिक्षां ददाविति ॥ २०९ ॥ क्षितेरसि त्वमाधारस्तवाऽऽधारो न कोऽपि तत् । त्यक्त्वा प्रमादमात्मानमात्मना वत्स! धारयः ॥२१० ॥ भ्रश्यत्याधारशैथिल्यादाधेयं ननु सर्वथा । विषयातिप्रसङ्गोत्थं, शैथिल्यं तस्य रक्ष तत् ॥ २११ ॥ यौवनं विभवो रूपं, स्वाम्यमेकैकमप्यतः । प्रमादकारणं विद्धि, बुद्धिमत्कार्यसिद्धिभित् ॥ २१२ ॥ कुलक्रमागताऽप्येषा, लक्ष्मीश्छलगवेषिणी । दुराराधा छलयति, राक्षसीव प्रमद्वरम् ॥२१३ ॥ चिरवासभवस्नेहो, नाऽस्यां स्थैर्याय किन्त्वसौ । प्रयाति लब्धावसरा, शारिकेवाऽन्यतो द्रुतम् ॥२१४ ॥ कुलटेवाऽपवादेभ्यो, भीरुतामादधत्यसौ । सुप्तवज्जाग्रतमपि, प्रमत्तं पतिमुज्झति ॥ २१५ ॥ १ वस्त्रप्रान्तसहितानि। २ सर्वाङ्गव्याप्तम्। ३ नक्षत्रसमूहैः । ४ स्वामिता। ५ छिद्रान्वेषिणी। ६ प्रमादिनम् ।
28282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥१५॥