________________
त्रिषष्टि
शलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
॥१४॥
1282828282828282828282828286
सुनोगिरा तया स्वाज्ञालोपिन्या सत्त्वसारया । विषण्णश्च प्रसन्नश्च, जगादेति महीपतिः ॥१८६ ॥ मत्पुत्रोऽपि समर्थोऽसि, विद्वानसि विवेक्यसि । किन्त्वज्ञानात् स्नेहमूलादविचार्यैवमभ्यधाः ॥१८७॥ गर्वाज्ञा हि कुलीनानां, विचारमपि नाऽर्हति । युक्तियुक्तेति मद्वाणी, विचार्यापि विधीयताम् ॥१८८॥ भारं वोढुं क्षमे पुत्रे, निराभारः पिता ननु । बालेऽपि हि सुते हन्त!, सिंही स्वपिति निर्भरम् ॥१८९॥ किञ्च त्वामप्यनापृच्छ्य, मोक्षकामः क्षमामिमाम् । मोक्ष्यामि यदहं वत्स!, परतन्त्रस्त्वया न हि ॥१९० ॥ विलुलन्तीमनाथां मां, ततोऽपि त्वं धरिष्यसि । अतिरिक्तं तु ते भावि, मदाज्ञालङ्घनादघम् ॥१९१ ॥ एवं वत्स! विचारेणाऽविचारेणाऽपि मद्वचः । अनुष्ठेयं त्वया भक्तिनिष्ठेन सुखदं मम ॥१९२ ॥ जगदुर्मन्त्रिणोऽप्येवं, निसर्गेण विवेकिनः । देवकीयकुमारस्य, समीचीनमिदं वचः ॥१९३ ॥ तथाऽपि देवपादा यदादिशन्ति तदाचर । गुर्वाज्ञाकरणं सर्वगुणेभ्यो ह्यतिरिच्यते ॥१९४ ॥ देवेनाऽपि पितृवचः, कृतं जानीमहे वयम् । पितृतः कः परो लोकेऽनुल्लङ्घयवचनो भवेत्? ॥ १९५ ॥ एवं मन्त्रिभिरप्युक्तः, कुमारो गद्गदस्वरम् । स्वाम्यादेशो मे प्रमाणमित्यूचे नंतकन्धरः ॥१९६ ॥ कुमुदं कौमुदीनाथेनेवाऽब्देनेव बहिणः । कुमारेणाऽऽदेशका, महीपतिरमोदत ॥ १९७ ॥ अथ भूमिपतिः प्रीतः, स्वयमादाय पाणिना । कुमारमासयामासाऽभिषेकाहे निजासने ॥१९८ ॥ पवित्राणि पवित्राणि,धरित्रीभर्तराज्ञया । आनिन्यिरे तीर्थपाथांस्यब्दैरिव नियोगिभिः ॥१९९ ॥ वाद्यमानेषु मङ्गल्यतूर्येषूच्चैःस्वरेष्वथ । मूनि मूर्धाभिषिक्तेन, कुमारः सिषिचे स्वयम् ॥ २०० ॥
१ स्वभावेन। २ नम्रग्रीवः । ३ चन्द्रेण। ४ मेघेन। ५ तीर्थजलानि। ६ अधिकारिभिः । ७ राज्ञा ।
282828282828282828282828282
पूर्वभवचरिते | प्रथमो विमल
वाहनभवः।
॥१४॥