________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम्।
॥४॥
28282828282828282828282828
द्विड्जयादातुरत्राणादर्थिसम्प्रीणनादपि । युद्धवीरो दयावीरस्त्यागवीरश्च सोऽभवत् ॥४१॥ स एवं राजधर्मस्थः, स्थिरधीरप्रमद्वरः । चिरं ररक्ष वसुधां, सुधामिव फणीश्वरः ॥ ४२ ॥ कृत्याकृत्यविदस्तस्य, सारासारं विविञ्चतः । अन्येधुरेवमुत्पेदे, भववैराग्यवासना ॥४३॥ योनिलक्षमहावर्त्तनिपातक्लेशभीषणः । पारावार इवाऽपारः, संसारो धिगसावहो ! ॥ ४४ ॥ इहेन्द्रजालवत् स्वप्नजालवच्च भवे हहा ! । क्षणाद् दृष्टैः क्षणान्नष्टैरथैर्मुह्यन्ति जन्तवः ॥ ४५ ॥ यौवनं पवनोद्भूतपताकाञ्चलचञ्चलम् । आयुः कुशाग्रविश्रान्तजलबिन्दुचलाचलम् ॥ ४६ ॥ अमुष्याऽप्यायुषो गर्भवासे नरकवासवत् । अत्यन्तदुःखाद् गच्छन्ति, मासाः पल्योपमोपमाः ॥ ४७ ॥ अथ जातस्य बालत्वेऽप्यायुर्भागः कियानपि । परप्रणेयस्य सतो, मुधाऽन्धस्येव गच्छति ॥ ४८ ॥ इन्द्रियार्थरसस्वादुरसास्वादेन यौवने । मत्तस्येव वृथा गच्छत्यायुरंशः कियानपि ॥४९॥ त्रिवर्गसाधनाशक्तवपुषश्च वपुष्मतः । आयुः शेषं वृथा याति, प्रसुप्तस्येव वार्द्धके ॥५०॥ इत्थं विदन्नपि भवी, भवायैव विचेष्टते । कामं रोगीव रोगाय, विषयास्वादलम्पटः ॥५१॥ यौवने विषयेभ्योऽसौ, यथा ह्युत्तिष्ठते भवी । तथोत्तिष्ठेत चेन्मुक्त्यै, किं हि न्यूनं तदा भवेत् ? ॥५२॥ स्वयकृतैः कर्मपाशैः, स्वं भवी वेष्टयत्यहो! । स्वलालातन्तुसन्तत्या, जालकार इव कृमिः ॥५३॥
अम्भोधौ युगशमिलाप्रवेशन्यायतो भवे । कथञ्चिन्मानुषं जन्म, लभ्यते पुण्ययोगतः ॥५४॥ । तत्राऽपि चाऽऽर्यदेशेषु, जन्मिनो जन्म जायते । महतश्च कुलस्याऽऽप्तिः, सेवा गुरुकुलस्य च ॥५५॥
१ अरिजयात् । २ परापेक्षारहितः। ३ समुद्रः। ४ पराधीनस्य । ५ आत्मानम् ।
128282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।
॥४॥