________________
त्रिषष्टिशलाकापुरुषचरिते
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
28282828282828282828282828
इति प्राप्याऽपि सामग्री, शिवाय यतते न यः । सम्पन्नायां रसवत्यां, स तिष्ठति बुभुक्षितः ॥५६॥ उभयोरपि चोर्ध्वाऽधोगत्योः स्वायत्तयोरिह। धावत्यधोमुखं प्रायो, जडधी लवज्जनः ॥५७॥ समये साधयिष्यामि, स्वार्थमित्याशयं वहन् । प्राप्यतेऽर्वाग् यमदूतैररण्ये तस्करैरिव ॥५८ ॥ कृत्वाऽघमपि यान् पुष्येत्, तेषामुत्पश्यतामपि । अत्राणो रङ्कवज्जन्तुः, कृष्ट्वा कालेन नीयते ॥५९॥ ततश्च नीतो नरके, लभतेऽनन्तवेदनाः । जन्मान्तरानुधावीनि, कर्माणि ऋणवन्नृणाम् ॥६० ॥ माताऽसौ मे पिता चाऽसौ, भ्राताऽसावभूरसौ । इति स्वबुद्धिर्मिथ्यैव, शरीरमपि न स्वकम् ॥६१॥ एषां पृथक् पृथक् स्थानादेयुषामिह केवलम् । एकत्राऽवस्थितिः स्थाने, पक्षिणामिव पादपे ॥६२ ॥ ततोऽप्यन्यत्र गच्छन्ति, पृथक् स्थानेषु देहिन : । नक्तमेकत्र शयिताः, पान्था इव निशात्यये ॥६३॥ अरघट्टघटीन्यायेनैहिरेयाहिरामिह । कुर्वतां देहिनां हन्त!, कः स्वकः? कः परोऽथवा? ॥६४॥ तत् त्यक्तव्यं कुटुम्बादि, त्यक्तव्यं पुरतोऽप्यदः । स्वार्थायैव यतितव्यं, स्वार्थभ्रंशो हि मूर्खता ॥६५॥ एकान्तानन्तसुखदः, स्वार्थो निर्वाणलक्षणः । मूलोत्तरगुणैः स स्यात्, प्रकाशोऽर्ककरैरिव ॥६६॥ इति चिन्तयतो राज्ञश्चिन्तामणिरिव स्वयम् । श्रीमानरिन्दमो नामोद्याने सूरिः समाययौ ॥१७॥ तदागमनवाः च, समाकर्ण्य महीपतिः । पीतपीयूषगण्डूष, इव हर्षं समासदत् ॥६८॥ तं वन्दितुमथाऽऽनन्दादचालीदचलापतिः । मायूरपत्रातपत्रैः, कुर्वन् साब्दमिवाऽम्बरम् ॥ ६९ ॥
28282828282828282828282828
पूर्वभवचरिते प्रथमो विमलवाहनभवः।
१ स्वाधीनयोः। २ बन्धूनाम्। ३ पुत्रः । ४ आगतानाम् । ५ गमनागमनम्। ६ मोक्षलक्षणः । ७ राजा। ८ मेघसहितम् ।
॥५॥