________________
त्रिषष्टिशलाकापुरुषचरिते ॥३॥
द्वितीयं पर्व प्रथमः सर्गः अजितसगरचरितम् ।
282828282828282828282828282
प्रपुष्णन् लालयन् वृद्धिं, प्रापयन् लम्भयन् गुणैः । स प्रजाः पालयामास, स्वापत्यानीव वत्सलः ॥२६॥ अन्यायं स निजस्याऽपि, न सेहे न्यायनिष्ठरः । चिकित्स्यते हि निपुणैरङोदवमपि व्रणम् ॥२७॥ लीलयैव महौजस्कः, स विश्वगवनीभुजाम् । शिरांसि नमयामास, समीर इव भूरुहाम् ॥२८॥ त्रिवर्गं पालयामास, परस्परमबाधितम् । नानाविधं प्राणिगणं, महात्मेव तपोधनः ॥२९॥
औदार्य-धैर्य-गाम्भीर्य-क्षान्तिप्रभृतयो गुणाः । तस्याऽन्योऽन्यमभूष्यन्तोपवनस्येव पादपाः ॥ ३० ॥ प्रसर्पन्तो गुणास्तस्य, सौभाग्यैकधुरन्धराः । कस्य न ह्यलगन् कण्ठे, चिरायातवयस्यवत् ? ॥३१॥ पर्वतारण्यदुर्गादिदेशेष्वपि महौजसः । सदागतेरिव गतिः, शासनं तस्य नाऽस्खलत् ॥ ३२ ॥ आक्रान्ताशेषदिक्कस्य, प्रसरच्चण्डतेजसः । लुलुठुर्भूभृतां मूर्ध्नि, पादास्तस्य रवेरिव ॥ ३३ ॥ सर्वज्ञो भगवान् स्वामि, यथा तस्य महामतेः । भूभुजामपि सर्वेषां, स एवैकस्तथाऽभवत् ॥३४॥ विसूत्रितामित्रबलः, सुत्रामेवैकविक्रमः । साधुभ्य एव स शिरो, नमयामास बाल्यतः ॥३५॥ यथा तस्याऽतुला शक्तिर्बाह्यानां द्विषतां जये । आन्तराणामपि तथा, बभूवैकविवेकिनः ॥३६॥ दुर्दमं दमयामास, बलादुत्पथगत्वरम् । यथेभ-वाजिप्रभृति, स इन्द्रियगणं तथा ॥ ३७॥ स ददौ दानशीलोऽपि, पात्र एव यथाविधि । पात्रे बहुफलं तद्धि, शुक्तावम्भोदवारिवत् ॥ ३८ ॥ विदधानः परपुरप्रवेशमिव सर्वतः । प्रजाः प्रवर्त्तयामास, धर्येऽध्वनि स धर्मवित् ॥ ३९ ॥ चरित्रेण पवित्रेण, सोऽवासयदिदं जगत् । मलयोर्वी परिमलेनेव चन्दनपादपः ॥ ४० ॥ १ सर्वत्र । २ पवनस्य। ३ इन्द्रः। ४ क्रोधादीनाम्। ५ परकायप्रवेशमिव ।
288888888888888888888888888
पूर्वभवचरिते प्रथमो विमलवाहनभवः ।