________________ त्रिषष्टिशलाकापुरुषचरिते / / 120 // सुविधिस्वामिनिर्वाणान्निर्वाणं शीतलप्रभोः / सागरोपमकोटीषु व्यतीतासु नवस्वभूत् / / 125 // श्रीशीतलस्य मुनिभिः सह तैर्विमुक्तिमासेदुषो दिविषदां पतयो यथावत् / निर्वाणयानमहिमानमुदारशोभं चक्रुर्ययुर्निजनिजं पुनरेव लोकम् / / 126 / / श्रीसम्भवप्रभृतितीर्थकृतां तृतीयेऽष्टानां चरित्रमिह पर्ववरेऽष्टसर्गे / ध्येयं पदस्थमिव वारिरुहेऽष्टपत्रेऽनुध्यायतो भवति सिद्धिरवश्यमेव / / 127 // तृतीयं पर्व अष्टमः सर्गः श्रीशितल जिन चरितम् / | निर्वाणम् / इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये __ तृतीयपर्वणि श्रीशीतलस्वामिचरितवर्णनो नामाष्टमः सर्गः / // 120 // तृतीयं पर्व समाप्तम् / /