________________
तृतीय पर्व अष्टमः
त्रिषष्टिशलाकापुरुषचरिते ॥११९॥
| सर्गः
| श्रीशितल| जिनचरितम् ।
तत्तीर्थभूब्रह्मनामा यक्षस्त्र्यक्षश्चतुर्मुखः । पद्मासनः श्वेतवर्णश्चतुर्भिर्दक्षिणैर्भुजैः ।। १११॥ मातुलिङ्गिमुद्गरभृत्सपाशाभयदायिभिः । वामैस्तु नकुलगदाङकुशाक्षसूत्रधारिभिः ।। ११२ ।। तथोत्पन्ना त्वशोकेति मुद्गवर्णाब्दवाहना । बिभ्राणा दक्षिणी बाहुदण्डौ वरदपाशिनौ ।। ११३ ।। फलाऽङ्कुशधरौ बाहू वहन्ती दक्षिणेतरौ । उभे अभूतां दशमार्हतः शासनदेवते ॥ ११४ ।। उपास्यमानस्ताभ्यां च विजहे शीतलप्रभुः । ततः पूर्वसहस्रांस्त्रिमासोनां पञ्चविंशतिम् ॥ ११५ ॥ लक्षं मुनीनां साध्वीनां लक्षमेकं षडुत्तरम् । चतुर्दशपूर्वभृतां चतुर्दशशतानि तु ॥११६ ॥ अवधिज्ञानधराणां द्वासप्ततिशती पुनः । सार्धाः सप्तसहस्रास्तु मनःपर्ययधारिणाम् ॥ ११७ ॥ शतानि सप्ततिरथ केवलज्ञानधारिणाम् । जातवैक्रियलब्धीनां सहस्रा द्वादशैव तु ॥ ११८ ॥ शतानि चाष्टपञ्चाशद्वादलब्धिमतां पुनः । श्रावकाणामुभे लक्षे नवाशीतिसहस्यपि ।। ११९ ॥ श्राविकाणां चतुर्लक्ष्यष्टपञ्चाशत्सहस्रयुक् । इति जज्ञे परीवारः प्रभोर्विहरतः सतः ॥ १२० ॥ मोक्षकालेऽथ सम्प्राप्ते सम्मेताद्रिं ययौ प्रभुः । प्रपेदेऽनशनं तत्र सहस्रेणर्षिभिः सह ॥ १२१ ॥ मासान्ते वैशाखकृष्णद्वितीयायां निशाकरे । पूर्वाषाढागते स्वामी मोक्षेऽगात्तैः महर्षिभिः ।। १२२ ।। कुमारभावे पूर्वाणां सहस्राः पञ्चविंशतिः । पञ्चाशत्पूर्वसहस्राः पृथिवीपरिपालने ॥ १२३ ।। प्रव्रज्यापालने पूर्वसहस्राः पञ्चविंशतिः । एवमायुः पूर्वलक्षमभूच्छ्रीशीतलप्रभोः ।। १२४ ।। १ मेघवाहना । * ऑब्जवा । - पाशाङ्कुशधरौ बाहू बिम्रती द।
परिवारः ।
॥११९ ॥